________________
हितोपदेशः । गाथा-११५, ११६ - धर्मोपदेशे साधोः अधिकारः ।। श्रुतस्य श्रुतधराणां च अवज्ञायाः फलम् ।। १२७
धर्मः सकलमपि संसृतिजालं लीलयैवोच्छिन्द्यात्' । पुनः किंविशिष्टः? भव्यपुण्डरीकाणां विबोधकः, भव्याः-सिद्धिगमनयोग्यास्त एव ज्ञानादिलक्ष्मीनिवासत्वेन पुण्डरीकाणि कमलानि तेषां मयूखमालीव विशिष्टबोधोत्पादकः । एवंविधो धर्मो यतिना कथयितव्यः । तत् किं सर्वेण? न, इत्याह प्रकल्पयतिना । प्रकल्पो निषीथाध्ययनं, तदुपलक्षितेन परिशीलितनिशीथादिग्रन्थेन तदभिज्ञगुरुजनाऽनुगृहीतेन वा, न पुनर्मुनिमात्रेण ।।११४ ।।
ननूपदेशमालादिषु श्राद्धजनस्थितिव्यावर्णनावसरे 'पढइ सुणेइ गुणेइ जणस्स धम्मं परिकहेइ' [उपदेशमाला गा. २३३ उत्त.] इत्यादि श्रीधर्मदासाचार्येणाभिहितं । इह चैवमुदीर्यते तत् कथमेतदिति प्रतिपत्तिनिरासायाह -
जं पुण पढइ सुणेइ जणस्स धम्मं कहेइ इचाइ ।
तं पच्छागडविसयं तेण वि जइ तं पुराहीयं ।।११५ ।। यत् पुनरुपदेशमालादिषु पठति शृणोति गुणयति जनस्य धर्म कथयतीत्याधुदीरितं, तत् पश्चात्कृतविषयम् आरूढपतितगोचरम्, पश्चात्कृतो व्यस्तपातितः स्वकर्मभिरेव ज्ञानदर्शनचारित्रेभ्य इति पश्चात्कृतः तद्विषयं तदुद्देशभणितं । पश्चात्कृतो हि गीतार्थगुर्वाद्यसद्भावे गुरुमुखान्मयेदमिदमाकर्णितमिति धर्मार्थिने जनाय किञ्चिदुपदिशति । परं तेनापि यावत् पुरा व्रताऽवस्थायामधीतं भवति तावदेवोपदेष्टव्यम्, न तु स्वमतिविकल्पितमन्यदपीति ।।११५ ।।
तम्हा मणसा वि सुयस्स सुयहराणं च कुणह नावनं ।
जं पजंतदुरंता मासतुसस्सेव सा होइ ।।११६।। तस्मादास्तां तावत् स्वाच्छन्द्येन देशनादिकं, यावत् श्रुतस्य सिद्धान्तस्य श्रुतधराणां च तत्पारगाणां, आस्तां वाक्कायाभ्यां मनसा चेतसापि नावज्ञां करोति चिन्तयति । यत् यस्मात् कारणात् सा तदवज्ञा पर्यन्ते विपाके दुरन्ता दुःखदायिनी भवति । कस्येव? माषतुषस्येव कृत्रिममाषतुषाभिधानस्य मुनेरिव ।।
तस्मादास्तां तावत् स्वाच्छन्द्येन देशनादिकं, यावत् श्रुतस्य सिद्धान्तस्य श्रुतधराणां च तत्पारगाणां, आस्तां वाक्कायाभ्यां मनसा चेतसापि नावज्ञां करोति चिन्तयति । यत् यस्मात् कारणात् सा तदवज्ञा पर्यन्ते विपाके दुरन्ता दुःखदायिनी भवति । कस्येव? माषतुषस्येव कृत्रिममाषतुषाभिधानस्य मुनेरिव ।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org