________________
१२६ हितोपदेशः । गाथा-१११, ११२, ११३, ११४ - श्रावकस्य सूत्र पठनाधिकारः ।। धर्मोपदेशे साधोः अधिकारः ।।
पिंडेसणअज्झयणं सुणइ परं अत्थओ गुरुसयासे ।
सेससुयस्स न सड्डो अखंडरूवस्स अहिगारी ।।१११।। पिण्डेषणाख्यमध्ययनं शृणोत्याकर्णयति । परं केवलमर्थतो न सूत्रतः पठति । क्व? गुरुसकाशे गीतार्थगुरुसमीपे । एतद् व्यतिरिक्तस्य शेषश्रुतस्य शेषागमस्य श्राद्धः श्रमणोपासकः पठनाय नाधिकारी । तत् किं सर्वस्य ? न, इत्याह अखण्डरूपस्यपूर्वापरानुसन्धानबन्धुरस्य, खण्डरूपं त्वालापकवाक्यगाथागाथाऽर्द्धादि पठत्येव, आज्ञासिद्धत्वादस्यार्थः ।।१११।। किञ्च -
न य तत्तियमित्तेणं उत्ताणो कुणइ देसणाईयं ।
गुरुनिरविक्खो होउं जम्हा सुत्ते निसिद्धमिणं ।।११२।। न च तावन्मात्रेणैव गुरुकुलवासाधिगतार्थलेशमात्रेणैवोत्तान: सगर्वः सन् न करोति देशनादिकम् । आदिशब्दात् प्रायश्चित्तप्रदानादिकम् । किं कृत्वा ? कुशलोऽहं तावत् स्वयमेव धर्मोपदेशादौ, तत: पर्याप्तं स्वस्य लघुत्वकारिण्या गुरुपरिचर्ययेति निरपेक्षता । अथ किमर्थमस्य देशनादि निषिद्ध्यते? तदाह - जम्हा सुत्ते निसिद्धमिणं यत् यस्मात् कारणान खल्वस्माभिरसहिष्णुतयाऽसूयया वा प्रतिषिद्ध्यते, किन्तु सूत्रे सिद्धान्ते निषिद्धमिदमिति ।।११२ ।। तदेव दर्शयति -
किं इत्तो कट्ठयरं सम्मं अणहिगयसमयसब्भावो ।
अन्नं कुदेसणाए कट्ठयरागंमि पाडेइ ।।११३।। इतोऽपि सकाशात् किमपरं कष्टतरं विशिष्टकष्टहेतुः । यत् सम्यक् तत्त्ववृत्त्या अनधिगतसमयसद्भावोऽप्यज्ञातसिद्धान्तरहस्योऽपि अन्यं स्वसदृशमेव कुदेशनया कुमतोपदेशेन कष्टतराके प्रस्तावात् भवावटे पातयति । अविदितसिद्धान्तोपनिषदो ह्यगीतार्थस्य केवलसाहसिक्यमात्रेण मुग्धजनविप्रतारणमन्धेनान्धाकर्षणमिव कस्य नाम न हास्याय स्यादित्यर्थः ।।११३।। एवं च सति धर्मोपदेशे यस्याधिकारस्तं प्रदर्शयन्नाह -
भवसयसहस्समहणो विबोहओ भवियपुंडरीयाणं ।
धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्यो ।।११४।। एवंविधो जिनप्रज्ञप्तो धर्मो यतिना साधुना कथयितव्यः प्ररूपणीयः, इयता द्वितीयपक्षस्य विक्षेपः । किंविशिष्टो धर्मः? भवशतसहस्रमथन:, शतसहस्रेत्युपलक्षणम् । 'सम्यगाराधितो हि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org