________________
हितोपदेशः । गाथा-११० - श्रावकस्य सूत्रपठनाधिकारः ।।
१२५
अट्ठप्पवयणमायाणुगयं सुत्तं जहन्नओ पढइ ।
उक्कोसेणं छज्जीवणिं तु जइ वयकउज्जोगो ।।११०।। अष्टप्रवचनमात्रनुगतं सूत्रं जघन्यतः सामान्यवृत्त्या श्रमणोपासकः पठति । उत्कर्षतस्तु षट्जीवनिकाख्यमध्ययनमध्येति । तत् किं सर्वोऽपि? न, इत्याह यदि व्रतकृतोद्योग: यदि व्रतार्थं सर्वविरतिनिमित्तकृतोद्योगो विहितोपक्रमः स्यात् । व्रतोन्मुखस्यैव षट्जीवनिकापाठेऽधिकारः । किमत्र प्रमाणमिति चेत्, उच्यते आप्तोक्तिरेव । तथा च श्रावकसूत्रपठनाधिकारे -
'जहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया ।
छज्जीवणियं तु पब्बजाए अभिमुहं वायावेइ' [ ] त्ति । अत्र च जहन्नेणं अट्ठप्पवयणमायाउ त्ति सूत्रप्रामाण्यात् केचिदुत्तराध्ययनाऽन्तर्गतस्य प्रवचनमात्रध्ययनस्य श्राद्धानां पठनाधिकारितामुपदिशन्ति । तञ्च निपुणं विचार्यमाणं न चतुरचेतसां चेतसि सङ्गतिमङ्गति । यतस्तावदुत्कर्षतोऽपि व्रतोन्मुखस्यापि श्राद्धस्य दशवैकालिकप्रतिबद्ध-षट्जीवनिकाऽध्ययनमात्रमेवाध्येतुमनुज्ञातम् । अतः कथमस्य कालिकसूत्रोत्तराऽध्ययन-सम्बद्धस्य प्रवचनमात्रध्ययनस्य जघन्येन पठनेऽधिकारः । न चाऽन्यत् प्रवचनमात्रनुगतं किमपि विशेषसूत्रमुपश्रूयते । अतस्तावदिदमेव बहुश्रुतानां विमृशतां प्रायो विचारगोचरमवतरति । यदत्र प्रवचनमात्रनुगतसूत्रशब्देन सामायिकसूत्रमेवाभिप्रेतम् । कथं तत्र प्रवचनमातृणामवतार इति चेत् ? उच्यते - करोमि भदन्त ! सामायिकमित्यनेन पञ्चानां समितीनामुपक्षेपः, प्रवृत्तिरूपत्वात् तासाम् । सावा योगं प्रत्याख्यामीत्यनेन न च गुप्तीनां सङ्ग्रहः, निग्रहरूपत्वाद् गुप्तीनाम् । तथा च चूर्णिः -
इत्थ किर करेमि भंते सामाइयं ति, पंच समिईओ गहियाओ। सव्वं सावजं इञ्चाइणा य तिनि गुत्तीओ संगहियाओ । समिईओ पवत्तणे, निग्गहे गुत्तीओ । [ ] 'समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्यो ।
कुसलवइमुदीरंतो जं वयगुत्तो वि समिओ वि ।।१।। [बृहत्कल्प भा० गा० ४४५१] एयाओ अट्ठप्पवयणमायाओ, जाहिं सामाईयं चउदसपुवाणि माइयाणि, माउगाउदहिमूलं ति भणियं होइ । [ ] ।।११०॥
तथा -
गाथा-११० 1. तुला - निशीथ भा. ३ । - यो. शा. १/४२ वृत्तौ । उप. प. गा. ६०५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org