________________
१२४
हितोपदेशः । गाथा-१०७, १०८, १०९ - श्रावकस्य सूत्रपठनाधिकारः ।।
एवमणगारिगोयरमगारिविसयं तु नाणदाणमिणं ।
जं तेसि पढंताणं संपाडइ पुत्थयाईयं ।।१०७।। एवं पूर्वोपवर्णितन्यायेन अनगारगोचरं साधुविषयं ज्ञानदानमुदीरितम् । अगारिविषयं तुः पुनरर्थे गृहमेधिगोचरं पुनर्ज्ञानदानमिदं वक्ष्यमाणस्वरूपं तदेव दर्शयति । यत् स श्रमणोपासकस्तेषामनगाराणं पठतां श्रुतं परिशीलयतां पुस्तकादिकं पुस्तकोपाध्यायप्रमुखं सम्पादयति सङ्घटयतीति ।।१०७ ।। तथा -
विरएइ उवटुंभं आहारेणं च चउब्विहेणावि ।
तह वत्थपत्तओसहसिज्जाईहिं विसुद्धेहिं ।।१०८।। विरचयति निर्मिमीते, किं तदुपष्टम्भं? प्रस्तावात् ज्ञानाधारस्य मुनिजनदेहस्य, केन? आहारेणं भोजनेन । किंविशिष्टेन? चतुर्विधेन अशनपानखाद्यस्वाद्यलक्षणेन अपिशब्दः समुञ्चये । तथा वस्त्रपात्रौषधशय्यादिभिश्च, तत्र वस्त्रं-कार्पासमुपलक्षणमिदं कम्बलादीनाम्, पात्रं-भोजनपात्रम्, औषधं-त्रिदोषघ्नमभयादि, शय्या-उपाश्रयः । कथम्भूतैः ? विशुद्धैः स्वयोगनिष्पनैः एभिश्चोपष्टम्भं मुनिजनस्य विरचयंस्तत्त्वतो ज्ञानादीनुपष्टम्भयति, तदाधारत्वात्तेषाम् । 'आगमग्राहिणां तूपष्टम्भो महते पुण्याय' । यदाह -
पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि य दिन्नं सुबहुप्फलं होइ ।। [श्राद्धदिनकृत्य गा. २७२] किञ्च - पठति पाठयति पठतामसौ वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनंकुरुते य उपग्रहंसइह सर्वविदेव भवेन्नरः ।।१०८॥ [ ] नाणड्डयाण कुणइ य बहुमाणं तह तयंतिए सम्म ।
ताणि अहिजइ गंथाणि जेसिमो होइ अहिगारी ।।१०९।। तथा ज्ञानाढ्यानां ज्ञानगुणशालिनां प्रस्तावादाचार्योपाध्यायादीनां कुरुते प्रकटयति । किं तद्? बहुमानं विशेषगौरवं ज्ञानालोकभास्करत्वात् तेषाम् । तथा तदन्तिके तत्पदोपान्ते सम्यक् त्रिकरणशुद्ध्या तानधीते ग्रन्थान् येषामसौ भवत्यधिकारी पठनयोग्यः ।।१०९।। तानेव दर्शयति -
गाथा-१०८ 1. तुला - योग शा. ३/११९ वृत्तौ ।।
तथा -
-
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org