________________
हितोपदेशः । गाथा-१०२, १०३, १०४ - श्रुतज्ञानस्य विशेषोपयोगिता तथा योग्यविनेयस्य सूत्रदाने विधिः ।। ११५
परिणामाः स्पर्शरसवर्णगन्धशब्दरूपेण तथा तथा परिणमनानि । तथा वर्तमानातीतानागता भावा अपि श्रुतबलादेवावसीयन्ते, तस्य चैतद्रहस्यप्रकटनपटिष्ठत्वात् ।।१०१।। एवं च यद् विधेयं तदाह -
तम्हा नाणमहनवपसत्थतित्थोवमे सया इत्थ ।
सविसेसं उज्जोगो निव्वुइकामेहिं काययो ।।१०२।। तस्मादेवं सति अत्र श्रुतज्ञाने सविशेषमुद्योग: कार्यः । किंविशिष्टे? ज्ञानमहार्णवप्रशस्ततीर्थोपमे । समुदितं हि ज्ञानपञ्चकं महार्णवप्रायं, श्रुतज्ञानं तु तत्र प्रशस्तावतारकल्पमतो निर्वृतिकामैः परमपदाभिलाषुकैः सविशेषमितरकर्त्तव्यत्यागेन तत्रोद्यमो विधेयः ।।१०२ ।। प्रोक्तं ज्ञानपञ्चकमधुना तदेव प्रकृते दानद्वारेऽवतारयन्नाह -
दाणं नाणस्स इमं जं सद्धासालिणो विणीयस्स । मेहाविस्स विणेयस्स संममब्भुट्टियस्स पुरो ।।१०३।। अवगनिऊण नियतणुपीडं अवहत्थिऊण आलस्सं ।
गीयत्थेण गुरुणा सुत्तं अत्यो य दायब्बो ।।१०४।। मत्यवधिमनःपर्यायकेवलानां दानं तावन्न घटते, अनक्षररूपत्वात् तेषाम्, अतोऽत्र ज्ञानस्य प्रस्तावात् श्रुतज्ञानस्य इदं दानम् । यदेवंविधस्य विनेयस्य गुरुणा सूत्रमर्थश्च दातव्यः प्रतिपाद्यः । किंविशिष्टस्य? श्रद्धाशालिनः श्रद्धा गुरुग्रन्थशुश्रूषायै क्षणे क्षणे प्रवर्द्धमाना हृदयानन्दाविष्कारिणी वासना, तया शालते श्रद्धाशाली, तस्य, अश्रद्दधाने हि नरि कृपापाथोधरैर्गुरुभिर्बह्वपि ज्ञानजलमभिवृष्टमूषरक्षेत्र इव कं गुणमुत्पादयति ? तथा विनीतस्य मनःशुद्धया सम्यग् विनयोपचारचतुरस्य, विनयपरिमलविकलो हि पुमान् सर्वत्र दुर्भग एव किं पुनर्गुरुकुले ? तथा मेधाविनो अर्थधारणक्षमया अतिसूक्ष्मरहस्यभेदिन्या प्रज्ञया समुपेतस्य, अप्राज्ञे हि प्रयासः शिलायां जलजारोपणमिव । एवंगुणसमग्रस्यापि पुरोऽनुपनम्रस्य नाधिकृतं ज्ञानदानमित्याह-'सम्ममन्भुट्टियस्स पुरो' सम्यगागमोक्तप्रकारेण द्वादशावता॑दिवन्दनं विधाय पुरोऽभ्युत्थितस्य, एवंविधं च विनेयं श्रुताय सम्यगुपस्थितमवधार्य, किं कृत्वा गुरुणा सूत्रार्थी दातव्यौ ? तदाह - 'अवगनिऊण नियतणुपीडं' अवगणय्य स्ववपुषो वेदनां, तथा आलस्यम् अनुद्यमम् अपहस्त्य । भवति हि निरन्तरश्रुतवाचनावितरणे वपुःपीडा, तज्जनिताश्चानुद्यमः, परं न तदा तौ पुरस्करणीयौ, महालाभ
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org