________________
११४ हितोपदेशः । गाथा - ९९, १००, १०१ - ज्ञानपञ्चके कर्तव्यस्य उपदेशः । । श्रुतज्ञानस्य विशेषोपयोगिता ।।
मतिज्ञानादिवत् भेदप्रभेदादिभिर्विशकलितम् । तथा अनन्तम् लोकालोकप्रकाशकम् न पुनर्मनःपर्यायादिवत् परिमितिक्षेत्रगोचरम् । तथा अप्रतिपाति प्रतिपतनं हि स्वरूपात् प्रच्यवनं, तन्न विद्यते यस्य तदप्रतिपाति । अवधिज्ञानादीनां हि क्षायोपशमिकत्वात् परिपातोऽपि घटते, न पुनरस्य क्षायिकत्वात् । तथा निरावरणं निर्गतान्येकान्ततः प्रलीनान्यावरणानि घातिकर्म्मचतुष्टयलक्षणानि यस्य तन्निरावरणम् इति । ९८ ।।
एवं ज्ञानपञ्चकमभिधाय तत्र कर्त्तव्यतामुपदिशति -
एवं पंचविगप्पं नाणं नाणत्थिणा सया सम्मं ।
सुणियव्वं मुणियव्वं सद्दहियव्वं पयडियव्वं ।। ९९ ।।
एतत् ज्ञानं पूर्वोक्तयुक्त्या पञ्चविकल्पं पञ्चप्रकारं ज्ञानार्थिना ज्ञानमभिलषता उत्तमनरेण, सदा सर्वकालं सम्यक् त्रिकरणशुद्ध्या गीतार्थमध्यस्थज्ञानमहोदधिसद्गुरुचरणसमीपे श्रोतव्यम् परमप्रमोदशालिना स्वकर्णाभ्यर्णचरं विधेयम्, तथा ज्ञातव्यंसूत्रार्थयोर्यथावत् परिशीलनेनावगन्तव्यं, तथा श्रद्धेयं सर्वज्ञवचनप्रामाण्यात्, विना हि श्रद्धानं सहस्रशः परिशीलितसूत्रार्था अपि पर्यटन्त्येव भविनो भवकान्तारे तथा प्रकटनीयं तदर्थिने जनाय स्वशक्त्यनुमानेन यथावत् प्ररूपणीयम् ।।९९।।
साम्प्रतं ज्ञानपञ्चकेऽपि यत्र विशेषोपयोगिता तदुपदर्शयन्नाह -
इत्थ य सुयनाणं चिय पाएण पयासयं पयत्थाणं ।
तप्पचएण संपइ जिणा वि जं सद्दहिज्जति । । १०० ।।
अत्र पञ्चकेऽपि ज्ञानानां प्रायो बाहुल्येन श्रुतज्ञानमेव पदार्थानां जीवाऽजीवादीनां प्रकाशकम् अवभासकृत् 'निखिलस्यापि वाङ्मयस्य श्रुतज्ञानरूपत्वात्' । किञ्च साम्प्रतं दुःषमादूषितेषु भरतादिक्षेत्रेषु तत्प्रत्ययेन श्रुतज्ञानाऽवष्टम्भेन जिना अपि भगवन्तः श्रद्धीयन्ते प्रतीयन्ते, तत्स्वरूपस्य तत्रैव निगदितत्वात् ।। १०० ।। तथा
नति जीवगई कम्मपरिणई पुग्गलाण परिणामा । तह वट्टमाणतीयाणागयभावा वि सीयंति । । १०१ ।।
जीवानां गतयस्तिर्यङ्नारकादिरूपाः कर्म्मणां परिणतयः शुभाऽशुभलक्षणाः । 'पुद्गलानां
गाथा - १०१ 1. स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।।
- तत्त्वा. सू. ५/२३ ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org