________________
हितोपदेशः । गाथा-९७, ९८ - पञ्चज्ञानस्य स्वामी ।। केवलज्ञानस्य स्वरूपम् ।।
११३
साम्प्रतमेतद्गतमेव किमपि प्रसङ्गेणाह -
मइसुयओहिन्नाणा विरयाणं हुंति अविरयाणं च ।
मणकेवलनाणाणि उ नियमेणं सव्वविरयस्स ।।१७।। मतिश्रुतावधिज्ञानानि विरतानामविरतानां च भवन्ति । उभयस्यापि तदधिकारित्वात् । मन:पर्यायकेवलज्ञाने तु नियमतोऽवश्यंतया सर्वविरतस्य यतेरेव जायते । अनयोरन्यस्यागोचरत्वात् ।।९७।। एवं ज्ञानचतुष्टयमभिधाय लेशतः पञ्चमज्ञानस्य स्वरूपमाह -
केवलनाणं पुण सव्वदव्वपज्जायकालअक्खलियं ।
एगसरूवमणंतं अप्पडिवाई निरावरणं ।।१८।। अस्यैवात्मनस्तथाभव्यत्ववशात् स्फटिकवलयवदपुनःसङ्घटनाय विघटिते घातिकर्मच-तुष्टये अनन्तवीर्यानन्दात्मकं यद् आत्मस्वरूपमुन्मीलति तत् केवलज्ञानमित्युच्यते । तच्च सर्वेषु द्रव्येषु धर्माधर्माकाशादिषु सर्वेषु पर्यायेषु देवमानवतिर्यग्नारकादिषु सर्वेषु कालेषु भूतभविष्यवर्तमानलक्षणेषु अस्खलितम् अप्रतिहतम्, पुनः किंविशिष्टम्? एकस्वरूपम् न तु गाथा-९८ 1. केवलज्ञानमिति । केवलं - सम्पूर्णज्ञेयं तस्य तस्मिन् वा सकलज्ञेये यज्ज्ञानं तत् केवलज्ञानम्,
सर्वद्रव्यभावपरिच्छेदीति यावत् । अथवा केवलं एक मत्यादिज्ञानरहितमात्यन्तिकज्ञानावरणक्षयप्रभवं केवलज्ञानं अविद्यमानस्वप्रभेदम् ।
- तत्त्वा . सि. वृ. १/१० ।। मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ।।
- तत्त्वा. १०/१ । 2. सर्वद्रव्यपर्यायेषु केवलस्य ।। - तत्त्वा. १/३० ।। सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयनिबन्धो
भवति । तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् । नातः परं ज्ञानमस्ति । न च केवलज्ञानविषयात् परं किञ्चिदन्यज्ज्ञेयमस्ति । केवलं परिपूर्ण समग्रसाधारणं निरपेक्षं विशुद्ध सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः ।।
- तत्त्वा . भा. १/३० ।। 3. तथा केवलम् - एकं मत्यादिज्ञानरहितत्वात् “नट्ठम्मि उ छाउमथिए नाणे" (आव. नि. गा. ५३९) इति
वचनप्रामाण्यात् । शुद्धं वा केवलम्, तदावरणमलकलङ्कपङ्कापगमात् । सकलं वा केवलम्, तत्प्रथमतयैव निःशेषतदावरणविगमतः संपूर्णोत्पत्तेः । असाधारणं वा केवलम्, अनन्यसदृशत्वात् । अनन्तं वा केवलम्, ज्ञेयानन्तत्वात् अपर्यवसितानन्तकालस्थायित्वाद्वा । निर्व्याघातं वा केवलम्, लोकाऽलोके वा क्वापि व्याघाताभावात् । केवलं च तद् ज्ञानं च केवलज्ञानम् यथावस्थितसमस्तभूतभवद्भाविभावस्वभावावभासि ज्ञानमिति भावना ।
___ - कर्म. वि. स्वो. वृ. गा. ४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org