________________
हितोपदेशः । गाथा - ९६ - मनःपर्यायज्ञानस्य विषयः ।।
तच्चेदं मनःपर्यायज्ञानं द्विधा भवति । कुतः ? इत्याह - ऋजुविपुलभेदात् । 'अथ मिथः किमन्तरमनयोरित्याह - ‘विसेसो इमो उ विउलंमि' विपुले विपुलमतिलक्षणे भेदे । तुः पुनरर्थे । प्रथमात् मन:पर्ययभेदादयं विशेष:, यदयमाद्याद् विशिष्टतरः । विपुलमतिर्हि निखिलमपि मानुषं क्षेत्रं परिपूर्णं विस्पष्टतरं जानीते । इतरस्तु तदेव सार्द्धद्व्यङ्गुलहीनमितरापेक्षया किञ्चिदस्पष्टं च पश्यति । तत् किमियानेव विशेषो ? न, इत्याह- 'अप्पडिवाई य विउलमई' विपुलमतिर्विपुलमतिलक्षणं ज्ञानम् अप्रतिपात्यप्रतिपतनस्वभावं स्वरूपेणावस्थितमित्यर्थः । इतरस्तु कर्मवशात् कदाचित् परिपतत्यपि ।। ९५ ।।
अथ किंविषयमिदमित्याह -
११२
विसओ इमस्स सुयि माणुसखित्तस्स मज्झवत्तीणं । पंचिंदियसन्नीणं जं परियाणइ मणोदव्वे । । ९६॥
'अमुष्यापि मनःपर्यायस्य स एवावधिज्ञानस्पृष्टो ज्ञेयांऽशो विषयो गोचरः । केवलमिदं मनुष्यक्षेत्रस्य मध्यवर्त्तिनां पञ्चेन्द्रियसंज्ञिनामेव मनोद्रव्याणि परिजानीते 1 अवधिस्त्वपरापरक्षेत्रगतान्यपि रूपिद्रव्याणीति । । ९६ ।।
तत्त्वा. १/२४/२५ ।।
गाथा - ९५ 1. ऋजुविपुलमती मनः पर्यायः ।। विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ।। मनःपर्यायज्ञानं द्विविधम् - ऋजुमतिमनः पर्यायज्ञानम्, विपुलमतिमनः पर्यायज्ञानं च । विशुद्धिकृतश्च अप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा - ऋजुमतिमन: पर्यायज्ञानाद् विपुलमतिमनःपर्यायज्ञानं विशुद्धतरम् । किञ्चान्यत् । ऋजुमतिमन: पर्यायज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिमनः पर्यायज्ञानं तु न प्रतिपततीति ।।
- तत्त्वा भा. १/२४ / २५ ।।
2. तिरियं जाव अंतो मणुस्सखित्ते अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु पनरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु सन्नीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणइ पासइ । तं चेव विउलमई अड्डाइज्जेहिं अंगुलेहिं अब्भहियतरयं विसुद्धतरयं खेत्तं जाणइ पासइ (नन्दी पत्र- १०८/१) । कर्म. स्वो वृ. गा. ८ ।।
।
-
गाथा - ९६ 1. तुला - तदनन्तभागे मनःपर्यायस्य ।।
तत्त्ववा. १/२९ ।।
यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मनः पर्यायस्य विषयनिबन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मनःपर्यायज्ञानी जानीते, रूपिद्रव्याणि
मनोरहस्यविचारगतानि च
मानुषक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति ।।
- तत्त्वा. भा. १/२९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org