________________
हितोपदेशः । गाथा-९३, ९४, ९५ - विभङ्गज्ञानस्य मन:पर्यायज्ञानस्य च स्वरूपम् तथा भेदाः ।। १११
अपरं च -
पयइत्थपयत्थपयासणेण सम्मीणमेस सम्मोही ।
अजहट्ठियदंसीणं मिच्छदिट्ठीण उ विभंगो ।।१३।। तथाऽयमेवावधिः सम्यगवधित्वं विभङ्गत्वं च भजते, कुत ? आश्रयविशेषात् । एतदेव दर्शयति - सम्यग्दर्शनिनामेव सम्यगवधिः । सम्यगवधित्वमेवास्य केन हेतुना? इत्याह - प्रकृतिस्थपदार्थप्रकाशनेन, प्रकृतिस्था: अर्हदृष्टिदृष्टा ये पदार्था जीवादयस्तेषां प्रकाशनेन साक्षात्कारेण । विभङ्गस्तु केषाम्? इत्याह - मिथ्यादृशां मिथ्याऽर्हदृष्टिविसंवादिनी दृष्टिविचारो येषां ते तथा । अत एवायथावस्थितार्थदर्शनास्ते ।।९३।। उक्तमवधिज्ञानं साम्प्रतं मनःपर्यायमाह -
आमाणुसुत्तराओ नगाओ पंचिंदियाण सत्रीणं ।
मुणइ मणोगयभावे जं तं मणपज्जवं बिंति ।।१४।। आ मानुषोत्तरान् नगात् मानुषोत्तरगिरिं मर्यादीकृत्य पञ्चेन्द्रियाणां तिर्यङ्मनुष्याणां संज्ञिनां गर्भजानां यत् ज्ञानं मनोगतान् चित्तावस्थितान् भावांस्तत्पर्यायांश्च जानात्यवबुध्यते तन्मनःपर्ययं वदन्ति कथयन्ति गणभृत्प्रभृतयः ।।९४ ।। तथा -
उजुविउलभेयओ सो दुहा विसेसो इमो उ विउलंमि ।
पढमाउ विसुद्धयरो अप्पडिवाई य विउलमई ।।१५।। गाथा-९३ 1. तुला - विभङ्ग इत्यस्य चार्थं प्रकाशयति - अवधिर्भवक्षयोपशमनिमित्तो विपरीतोऽन्यथा
वस्तुपरिच्छेदी विभङ्ग इति, यथावस्थितवस्तुपरिच्छेदि च प्रमाणमिष्टं, न चैतत् तथेत्यत: अप्रामाण्यं मिथ्यादृष्टिपरिगृहीतानामिति ।
-- तत्त्वा. सि. वृ. १/३२ ।। गाथा-९४ 1. तुला - तथा परिः सर्वतोभावे अवनम् अवः, अवनं गमनं वेदनमिति पर्यायाः, परि अव:
पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्च स ज्ञानं च मनःपर्यवज्ञानम्। यद्वा मनःपर्यायज्ञानम्, तत्र संज्ञिभिर्जीवैः काययोगेन गृहीतानि मन:प्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगताः परिणामाः मनःपर्यायाः, तेषु तेषां वा सम्बन्धिः ज्ञानं मनःपर्यायज्ञानम्, यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति अवगच्छतीति मनःपर्यायम्, मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् ।
- कर्म वि. वृ. गा. ४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org