________________
११०
हितोपदेशः । गाथा-९१, ९२ - अवधिज्ञानस्य षड्भेदाः ।। अवधिज्ञानस्य विषयः ।।
तदेतदवधिज्ञानमेवमनुगामिप्रभृतिभिः षड्भेदं भवति । तत्रानुगामुकं यत्र क्वचिदुत्पन्नं तत्रस्थस्य क्षेत्रान्तरगतस्यापि न प्रतिपतति भास्करप्रकाशवत् । अननुगामुकं च यत्र क्षेत्रे स्थितस्योत्पन्नं ततः प्रच्युतस्य प्रतिपतति, प्रश्नादेशपुरुषज्ञानवत् । हीयमानं च असङ्ख्येयेषु द्वीपसमुद्रादिषु यदुत्पन्नं क्रमशः सङ्क्षिप्यमाणं प्रतिपतति आ अङ्गुलासङ्ख्येयभागात् । प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् । वर्द्धमानं पुनयदङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं वर्द्धते आ सर्वलोकात् । अनवस्थितं पुनः पुनवर्द्धते हीयते च हीयते वर्द्धते च, प्रतिपतति चोत्पद्यते च सलिलोर्मिवत् । अवस्थितं च यावति क्षेत्रे उत्पन्नं ततो न प्रतिपतति, आ केवलप्राप्तेरवतिष्ठते ।।९१।। यदि वा -
आमरणंतं च भवे भवंतरं वा वि संकमइ एयं ।
विसओ पुण दुविहस्स वि इमस्स जे रूविणो दव्वा ।।१२।। इदमेवावस्थितसंज्ञमवधिज्ञानमामरणान्तं भवेत् भवान्तरमपि वा सङ्क्रामति । भवप्रत्ययस्य क्षयोपशमसमुत्थस्येवावधेः को विषय? इत्याह - 'द्विविधस्याप्यस्य रूपिद्रव्याण्येव विषयः । 'रूपिष्ववधिः' इति वचनात् ।।१२।।
2. तुला - तं समासओ छव्विहं पन्नत्तं, तं जहा - आणुगामियं अणाणुगामियं वड्डमाणयं हीयमाणयं पडिवाई अपडिवाई।
___- (नन्दीपत्र ८१-१) कर्म वि. स्वो. वृ. गा.८ ।। 3. तुला - तत्रानुगामिकं यत्र क्वचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न प्रतिपतति, भास्करप्रकाशवत् घटरक्तभाववञ्च । 4. तुला - अननुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्नं ततः प्रच्युतस्य प्रतिपतति, प्रश्नादेशपुरुषज्ञानवत् । 5. तुला - हीयमानकं असङ्ख्येयेषु द्वीपेषु समुद्रेषु पृथिवीसु विमानेषु तिर्यगूर्ध्वमधो वा यदुत्पन्नं क्रमशः सङ्क्षिप्य
माणं प्रतिपतति आअङ्गुलासङ्ख्येयभागात् प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसत्तत्यग्निशिखावत् । 6. तुला - वर्धमानकं यदङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं वर्धते आसर्वलोकात् । अधरोत्तरारणिनिर्मथनासन्नो__पात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् ।। 7. तुला - अनवस्थितं हीयते वर्धते वर्धते हीयते च । प्रतिपतति चोत्पद्यते चेति । पुनः पुनरुमिवत् । 8. तुला - अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्राप्तेरवतिष्ठते, आ भवक्षयाद् वा ___ जात्यन्तरस्थायि भवति लिङ्गवत् ।
- तत्त्वा . भा. १/२३ ।। गाथा-९२ 1. तुला - रूपिष्ववधेः । - तत्त्वा. १/२८ । रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धनो भवति, असर्वपर्यायेषु । सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येवद्रव्याण्यवधिज्ञानी जानीते, तान्यपि न सर्वैः पर्यायैरिति ।।
- तत्त्वा . भा. १/२८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org