________________
हितोपदेशः । गाथा-८९, ९०, ९१ - अवधिज्ञानस्य स्वरूपम् ।।
अथ केषां भवप्रत्ययं, केषां च क्षयोपशमसमुत्थमिति पृथग् गाथाद्वयेन व्यनक्ति -
भवपञ्चइयं सुरनारयाण सिक्खातवाइविरहे वि ।
आजम्मं चिय जायइ विहगाणं गयणगमणं व ।।८९।। तत्र भवप्रत्ययं नारकदेवानां, तेषां हि तद्भवोत्पत्तिरेवावधिहेतुर्न शिक्षा नापि तप इति । तदपि कदाचित् कियत्कालावस्थायि स्यादत आह - आजन्मापि जायते जन्मनः प्रभृति मरणमभिव्याप्याऽवतिष्ठते । अत्रोपमामाह - विहगानां गगनगमनमिव, यथा पक्षिणामन्तरिक्षगमनं भवप्रत्ययम् ।।८९।। एवमवधेराद्यभेदमभिधाय द्वितीयमभिधित्सुराह -
कम्माण खओवसमेण मणुयतिरियाणं जायए जं च ।
तं छब्भेयं नेयं एवं सुत्ताणुसारेण ।।१०।। यच कर्मणां ज्ञानावरणादीनां क्षयोपशमेन । तत्राल्पबन्धानामल्परसानामल्पस्थितिकानां ध्वंस: क्षयस्तथा तेषामेव बहुबन्धानां बहुप्रदेशानां बहुरसानां बहुस्थितिकानां च किञ्चित् प्रशम उपशमः, क्षयेण युक्त उपशमः क्षयोपशमः । तेन केषां तद् ? इत्याह - मनुष्यतिरश्चाम् इति, मनुष्याः संज्ञिपञ्चेन्द्रियाः, तद्विधा एव च तिर्यञ्चस्तेषां यदवधिज्ञानं तत् क्षायोपशमिकम् । तञ्च षट्भेदम् । कथं? एवं वक्ष्यमाणसूत्रानुसारेण, सूत्रमाप्तवचनं तस्यानुसार:-पारम्पर्यं, तेन ज्ञेयम् ।।१०।। भेदानेव दर्शयति -
अणुगामिमणणुगामि च हीयमाणं च वड्डमाणं च ।
अणवट्ठियं अवट्ठियमिय छन्भेयं भवइ एयं ।।११।। गाथा-८९ 1. तुला - तत्र भवप्रत्ययो नारकदेवानाम् ।। - तत्त्वा. १/२२ ।। नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति । भवप्रत्ययं भवहेतुकं भवनिमित्तमित्यर्थः । तेषां हि भवोत्पत्तिरेव तस्य हेतुर्भवति, पक्षिणामाकाशगमनवत्, न शिक्षा न तप इति ।। ___ - तत्त्वा . भा. १/२२ ।। गाथा-९० 1. तुला - यथोक्तनिमित्तः षड्विकल्प: शेषाणाम् । - तत्त्वा. १/२३ । यथोक्तनिमित्तः क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति । शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद् यथा - अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितं, अवस्थितमिति ।
- तत्त्वा . भा. १/२३ । गाथा-९१ 1. तुला - अणुगामि - वड्डमाणय - पडिवाईयरविहा छहा ओही । - कर्म वि. गा. ८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org