________________
१०८
श्रुतज्ञानस्य भेदाः ।। अवधिज्ञानस्य स्वरूपम् ।।
कृतकृत्या अपि ते श्रुतज्ञानं भजन्ते ? तदाह - परोपदेशाय । यतस्तेऽपि भगवन्तः केवलज्ञानेन केवलं कलयन्ति सकलमपि स्वयं ज्ञेयम्, परोपदेशं तु श्रुतद्वारेणैव ददति । 'निखिल वाङ्मयस्य श्रुतरूपत्वात्' ।। ८६ ।। किञ्च -
हितोपदेशः । गाथा - ८७, ८८
अक्खरसन्निप्पमुहा सेसा भेया इमम्मि भेयदुगे ।
पविसंति नित्रयाणं जहा पवाहा जलनिहिम्मि ।। ८७ ।।
'शेषास्त्वक्षरसंज्ञिप्रमुखाः श्रुतज्ञानभेदा भगवद्भद्रबाहुस्वामिप्रभृतिभिरावश्यकादिमूलग्रन्थेषु तथा तथा प्रथां प्रापिता अस्मिन्नेवाङ्गप्रविष्टाङ्गबाह्यलक्षणे श्रुतज्ञानभेदद्वये प्रविशन्ति निलीयन्ते, एतत्प्रभेदस्वरूपत्वात् तेषाम् । अत्रोपमामाह यथा निम्नगानां प्रवाहाः श्रोतांसि जलनिधी श्रोतः पतौ प्रविशन्ति, तद्वद् इति ।। ८७ ।।
-
भणितं श्रुतज्ञानमथाऽवधिज्ञानमभिधित्सुराह -
अवही किल मज्जाया सा विज्जइ जम्मि तं अवहिनाणं । भवपचइयं च खओवसमसमुत्थं च तं पि दुहा ।।८८ ।।
किलेत्याप्तौ । अवधिर्मर्यादा सीमा रूपिद्रव्यसाक्षात्कारलक्षणा, सा विद्यते यस्मिंस्तदवधिज्ञानं, तदपि श्रुतज्ञानवद् द्विधा द्विप्रकारम् द्वैविध्यमेव दर्शयति भवप्रत्ययं भव एव प्रत्ययः कारणं यस्य तद् भवप्रत्ययमित्येको भेदः । द्वितीयं पुनः क्षयोपशमसमुत्थम् ।। ८८ ।।
Jain Education International 2010_02
-
गाथा - ८७ 1. तुला
अक्खर - सन्नि सम्मं, साइयं खलु सपज्जवसिअं च । गमिअं अंगपविद्धं, सत्त वि एए सपडिवक्खा ।।१।। पज्जय- अक्खर -पय-संघाया, पडिवत्ति तह य अणुओगो । पाहुडपाहुड पाहुड, वत्थु
कर्म. वि. गा. ६-७ ।।
पुव्वा य ससमासा ।।२।।
गाथा -८८ 1. तुला अवशब्दोऽधः शब्दार्थः अवधानादवधिः ज्ञानं परिच्छेदः । एतदुक्तं भवति अधोविस्तृतविषयमनुत्तरोपपादिकादीनां ज्ञानमवधिज्ञानम्, अथवा अवधिः मर्यादा, अमूर्त्तद्रव्यपरिहारेण मूर्तिनिबन्धनत्वादेव तस्यावधिज्ञानत्वम् ।। - तत्त्वा. सि. वृ. १/९ ।। तथाऽवधानमवधिः इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अत एवेदं प्रत्यक्षज्ञानम् । अथवा अवशब्दोऽधः शब्दार्थः, अव - अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्च तद् ज्ञानं चावधिज्ञानम् ।। - कर्म वि. स्वो वृ. गा. ४ ।।
क्षयोपशमनिमित्तश्च । - तत्त्वा भा. १/२१ ।।
-
2. तुला - द्विविधोऽवधिः ।। - तत्त्वा. १/ २१ ।। भवप्रत्ययः,
-
For Private & Personal Use Only
www.jainelibrary.org