________________
हितोपदेशः । गाथा-८६ - श्रुतज्ञानस्य भेदाः ।।
१०७
तदेवंविधश्रुतमङ्गबाह्यमभिधीयते । यत् किं? यद् विरचितम् । कैः? चतुर्दशदशपूर्वभृत्प्रभृतिभिः तद्विरचितस्यैव समयशब्दाभिधेयत्वात् ।। यदाह -
सुत्तं गणहररइयं तहेव पत्तेयबुद्धरइयं च ।
सुयकेवलिणा रइयं अभिनदसपुविणा रइयं ।।१॥ [बृहत्सं. प्र. गा. १५४] तथा महर्षिभिः आर्यश्यामादिभिः यद् विरचितम् । किं कृत्वा? अङ्गगतगभीरसूत्रार्थसारमादाय । अथ किमर्थमयमियानुपक्रमस्तैर्व्यरचि? तदाह - परमकरुणया, करुणोत्पत्तेरेव कारणमाह - 'मुणिऊण' ज्ञात्वा, कां? संहननकालबलबुद्धिहानिम् । तत्र संहननं - वज्रऋषभनाराचादि, काल:-सुषमादिः, बलं-परीषहोपसर्गादिसहिष्णुत्वम् । बुद्धिः-पूर्वगतश्रुताध्ययनसमर्था प्रज्ञा । अत एतेषां संहननादीनामवसर्पिणीदोषात् हानिमालोच्य, केषाम्? आगामिपुरुषाणाम् ऐदंयुगीनमानवानां, दुरवबोधं हि तादृशामङ्गप्रविष्टश्रुतमतस्तदनुग्रहाय । यदेभिर्विरचितं तदङ्गबाह्यम् । कतमञ्च तद्? इत्याह - सामायिकादि सामायिकप्रमुखं तद्यथा - सामायिकं, चतुर्विंशतिस्तवो, वन्दनं, प्रतिक्रमणं, कायोत्सर्गः, प्रत्याख्यानं, दशवैकालिकम्, उत्तराध्यायाः, दशाः, कल्प-व्यवहारौ, निशीथं, ऋषिभाषितानीत्येवमादि तदिदमशेषमप्याचाराङ्गाद्यङ्गेभ्यो व्यतिरिक्तत्वादङ्गबाह्यमित्युच्यते ।।८४ ।।८५ ।। एतदेव निगमयन्नाह -
एयं दुविहं पि तिकालगोयरं भन्नए सुयन्नाणं ।
केवलनाणीहिं पि हु परोवएसाय भयणिज्जं ॥८६।। तदेतद् द्विविधमप्यङ्गानङ्गप्रविष्टं भण्यते पूर्वाचार्यः श्रुतज्ञानम् । किंविशिष्टं? त्रिकालगोचरम् । त्रयोऽपि भूतभविष्यद्वर्त्तमानलक्षणा: काला ज्ञेयत्वेन गोचरो विषयो यस्य तत् तथा । किञ्च भजनीयं सेवनीयम् । कैः? केवलज्ञानिभिरपि । अथ किमर्थमनन्तज्ञानोपलब्ध्या
गाथा-८५ 1. गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिबुद्धिशक्तिभिराचार्य: कालसंह
ननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति । - तत्त्वा . भा. १/२० । 2. अङ्गबाह्यमनेकविधम् । तद्यथा - सामायिक, चतुर्विंशतिस्तवः, वन्दनं, प्रतिक्रमणं, कायव्युत्सर्गः, प्रत्याख्यानं, दशवैकालिकं, उत्तराध्यायाः, दशाः, कल्पव्यवहारो, निशीथमृषिभाषितानीत्येवमादि ।।
- तत्त्वा . भा. १/२० ।। गाथा-८६ 1. तुला - श्रुतज्ञानं तु त्रिकालविषयम्, उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति । - तत्त्वा. भा. १/२० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org