________________
हितोपदेशः । गाथा - ८३, ८४,८५
त्यभिधीयते । तदपि द्विभेदं द्विप्रकारं ज्ञेयम् । एकमङ्गप्रविष्टं, तदितरमङ्गबाह्यं च ।। ८२ ।।
अथ किमिदमङ्गप्रविष्टमित्याह -
१०६
पढमं जिणिदचंदेहिं अत्थओ सुत्तओ गणहरेहिं ।
जं पन्नत्तं सक्खा तं आयाराइ इह नेयं ॥ ८३ ॥
तयोः 'प्रथममङ्गप्रविष्टम् । यत् किम् ? यत् साक्षात् श्रीमुखेनार्थतः प्ररूपितम् । कैः ? जिनेन्द्रचन्द्रैः । जिनाः अवधिजिनादयस्तेषु विशिष्टज्ञानपरमैश्वर्यशालित्वेनेन्द्राः केवलिनस्तेष्वपि विशिष्टाष्टप्रातिहार्यादिदेदीप्यमानत्वेन चन्द्रास्तीर्थकृतस्तैः, तथा गणभृद्धिस्तदनन्तरशिष्यैः कथं ? सूत्रतः सूत्ररूपेण यत् प्रज्ञप्तम् तदङ्गप्रविष्टम् । कतरच्च तद् ? इत्याह- आचाराङ्गप्रमुखं, तद्यथाआचार' सूत्रकृतं स्थानं समवाय' विवाहप्रज्ञप्ति: ५ ज्ञाताधर्म्मकथा उपासकाऽध्ययनदशाः ७ अन्तकृद्दशाः“ अनुत्तरोपपातिकदशाः प्रश्नव्याकरण विपाकसूत्र" दृष्टिवाद" इति । अमू द्वादशाऽप्यङ्गानि तथास्थितेरेवार्थतस्तीर्थनाथैः सूत्रतश्च गणभृद्भिर्निबध्यन्त इति । यदाहुः - 'अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निऊणं ।
सासणस्स हियट्ठाए तओ तित्थं पवत्तए इति । । १ । । [ विशेषा० भा० १९१९] ।।८३ ।।
साम्प्रतं द्वितीयमङ्गबाह्यश्रुतभेदमाह -
बीयं चउदसदसपुव्व - धारएहिं तहा महेसीहिं । संघयणकालबलबुद्धि- हाणिमागामिपुरिसाणं ।।८४ ।।
मुणिऊणं परमकरुणाइ गहिरसुत्तत्थसारमादाय । जं विरइयमिह सामाइयाइ तं अंगबज्झं तु ।।८५ ।।
-
इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् ।। कर्म वि. स्वो वृ. गा. ४ ।। गाथा-८३ 1. यद् भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतििापन-फलस्यतीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसम्पनैर्गणधरैर्दृब्धं तदङ्गप्रविष्टम् । अङ्गप्रविष्टं द्वादशविधम् । तद्यथा - आचारः, सूत्रकृतं, स्थानं, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञाताधर्मकथाः, उपासकाध्ययनदशाः, अन्तकृद्दशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं दृष्टिपात इति ।।
• तत्त्वा. भा. १/२० ।।
2. तुलना - अत्थं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी । अत्यं च विणा सुत्तं, अणिस्सियं केरिसं होज्जा ।।
श्रुतज्ञानस्य भेदाः ।
Jain Education International 2010_02
For Private & Personal Use Only
- बृ. क. भा. १-१९३ ।।
www.jainelibrary.org