________________
हितोपदेशः । गाथा-८२ - श्रुतज्ञानस्य स्वरूपम् तथा श्रुतज्ञानस्य भेदाः ।।
gou
मिलिताश्चतुर्विंशतिः, व्यञ्जनावग्रहश्च चक्षुरिन्द्रियमन:परिहारेण चतुर्भेद एव । एते च चत्वारश्चतुर्विंशत्या मीलिता अष्टाविंशतिर्भवन्ति । अष्टाविंशतिश्च बहुबहुविधक्षिप्रानिश्रितसन्दिग्धध्रुवाख्यैः षड्भिर्भेदैर्गुणिता अष्टषष्ट्युत्तरं शतं भवति । सैव च बहुबहुविधक्षिप्रानिश्रितसन्दिग्धध्रुवाख्यैरेव सप्रतिपक्षैर्गुणिताः षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । अमीषां च भेदानां प्रतिपदव्याख्यानं ग्रन्थान्तरेभ्योऽवसेयम् । इह तु ग्रन्थगौरवभयानोक्तम् ।।८१।। एवं मतिज्ञानमभिधाय श्रुतज्ञानं बिभणिषुराह -
सुव्वइ य निसामिजइ पारंपजेण जेण तेण सुयं । तं पि दुभेयं नेयं अंगपविटुं तदियरं च ।।२।। श्रूयते निशम्यते पारम्पर्येण गीतार्थगणधरपरम्परया येन कारणेन तेन निरुक्तबलेन श्रुतमि
व्यज्यतेऽनेनार्थ इति व्यञ्जनं सन्तमसावस्थितघटरूपप्रदीपादिवत्, तत् पुनर्व्यञ्जनं संश्लेषरूपं यदिन्द्रियाणां स्पर्शनादीनामुपकरणाख्यानां स्पर्शाद्याकारेण परिणतानां पुद्गलद्रव्याणां च यः परस्परं संश्लेषस्तद्व्यञ्जनं, तस्य व्यञ्जनस्यावग्रह एवैको भवति ग्राहकः ।
- तत्त्वा. सि. वृ. १/१८ ।। वंजणवग्गह चउहा मण-नयण-विणिंदयचउक्का ।
- कर्म. वि. गा. ४ ।। अत्थुग्गह-ईहा-वाय-धारणा करणमाणसेहिं छहा । इय अट्ठवीसभेअं। - कर्म. वि. गा. ५ ।। 5. बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां सेतराणाम् ।।
- तत्त्वा . १/१६ ।। बह्ववगृह्णाति । अल्पमवगृह्णाति । बहुविधमवगृह्णाति । एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति । चिरेणावगृह्णाति । निश्रितमवगृह्णाति । अनिश्रितमवगृह्णाति । असन्दिग्धमवगृह्णाति । सन्दिग्धमवगृह्णाति । ध्रुवमवगृह्णाति । अध्रुवमवगृह्णाति । इत्येवमीहादीनामपि विद्यात् ।
- तत्त्वा . भा. १/१६ ।। गाथा-८२ 1. श्रूयते तदिति, अस्मिन् पक्षे शब्दमात्रं गृह्यते, श्रुतिः श्रवणमित्यस्मिन् पक्षे ज्ञानविशेष उच्यते, स एव
च ग्राह्यः श्रुतम् । कीदृशः स इति चेत् ? उच्यते - शब्दमाकर्णयतो भाषमाणस्य पुस्तकादिन्यस्तं वा चक्षुषा पश्यतः घ्राणादिभिर्वा अक्षराणि उपलभमानस्य यद् विज्ञानं तत् श्रुतमुच्यते, तेन ज्ञानं विशेष्यते, श्रुतं च तज्ज्ञानं चेति श्रुतज्ञानम् ।
- तत्त्वा . सि. वृ. १/९ । श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् ।
- तत्त्वा . १/२० ।। श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनं आगमः उपदेश ऐतिह्यमाम्नाय: प्रवचनं जिनवचनमित्यनान्तरम् ।।
- तत्त्वा . भा. १/२० ।। तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च । तत् पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् । - तत्त्वा. भा. १/२० ।। श्रवणं श्रुतम् - अभिलापप्लावितार्थग्रहणहेतुरूपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org