________________
१०४
हितोपदेशः । गाथा-८१ - मतिज्ञानस्य भेदाः ।।
'अस्मिन् मतिज्ञाने एतत्सङ्ख्या भेदा ज्ञातव्या भवन्ति । तानेव व्यनक्ति - तत्रादौ तावन्मतिज्ञानस्य द्वौ भेदौ, द्विभेदं मतिज्ञानमित्यर्थः । तद्यथा - इन्द्रियजमनिन्द्रियजं वा । पुनरवग्रहेहावायधारणाभिश्चत्वारो भेदाः । तत्रावग्रहो द्वेधा - अर्थावग्रहो व्यञ्जनाऽवग्रहश्च । तत्रार्थावग्रहेहावायधारणाश्चत्वारोऽपि प्रत्येकं स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनोभिर्भेदैः षट्प्रकारा भवन्ति ।
गाथा-८१ 1. तुला - एवमेतदिति लक्षणविधानाभ्यां यनिरूपितं मतिज्ञानं तस्य पुनः सम्पिण्ड्य भेदान्
कथयति । द्विविधमित्यादिना । द्विविधमिति, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । चतुर्विधमवग्रहादिभेदतः । अष्टाविंशतिविधमिति, स्पर्शनादीनां मनःपर्यवावसानानां षण्णामेकैकस्य चत्वारो भेदा अवग्रहादयस्ते समुदिताः सर्वेऽपि चतुर्विंशतिरुपजाताः, ततोऽन्यञ्चक्षुर्मनोवर्जस्पर्शनादीनां यो व्यञ्जनावग्रह: चतुर्भेदः स प्रक्षिप्तः, ततोऽष्टाविंशतिविधं भवति । अष्टषष्ट्युत्तरशतविधमिति, तस्या एवाष्टाविंशतेरेकैको भेदः षड्विधो भवति बह्वादिभेदेन, अत अष्टषष्ट्युत्तरशतविधं भवति । तस्या एवाष्टाविंशतेरेकैको भेदो द्वादशधा भवति सेतरबह्वादिद्वादशकेन, अत: षट्त्रिंशत्रिशतभेदमिति ।
- तत्त्वा . सि. वृ. १/१९ ।। 2. तदिन्द्रियानिन्द्रियनिमित्तम् । तत्त्वा. १/१४ ।। तदेतत् मतिज्ञानं द्विविधं भवति इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । तत्त्वा. भा. १/१४ ।। तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोधज्ञानं च ।
____ - तत्त्वा . भा. १/१४ ।। 3. अवग्रहेहापायधारणाः । - तत्त्वा १/१५ ।। तदेतत् मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति । तद्यथा - अवग्रह-ईहा-अपायो-धारणा चेति ।
- तत्त्वा . भा. १/१५ ।। तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः । अवग्रहो ग्रहो? ग्रहणमालोचनमवधारणमित्यनर्थान्तरम् । अवगृहीतम् । विषयाथैकदेशाच्छेषानुगमनम् । निश्चयविशेषजिज्ञासा चेष्टा ईहा । ईहा ऊहा तर्क: परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् । अवगृहीतविषये सम्यगसम्यगितिगुणदोषविचारणा अध्यवसायापनोदोऽपायः । अपायोऽपगमः, अपनोदः अपव्याधः, अपेतमपगतमपविद्धमपनुत्यमित्यनर्थान्तरम् । धारणाप्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च । धारणा प्रतिपत्तिरवधारणावस्थानं निश्चयः अवगम: अवबोध इत्यनन्तरम् ।
- तत्त्वा . भा.१/१५ ।। 4. अर्थस्य ।। व्यञ्जनस्यावग्रहः ।। न चक्षुरनिन्द्रियाभ्याम् ।। - तत्त्वा. १/१७/१८/१९ ।। अवग्रहादयो
मतिज्ञानविकल्पा अर्थस्य भवन्ति । व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव । चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति, चतुर्भिरिन्द्रियैः शेषैर्भवति । एवमेतत् मतिज्ञानं द्विविधं, चतुर्विधमष्टविंशतिविधमष्टषष्ट्युत्तरशतविधं षट्त्रिंशत्रिशतविधं च भवति ।।
___ - तत्त्वा . भा. १/१७/१८/१९ ।। अर्थश्च स्पर्शरसगन्धवर्णशब्दात्मकः तस्य स्पर्शादेरर्थस्य अवग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पाः अंशा इत्यर्थः । - तत्त्वा. सि. वृ. १/१७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org