________________
हितोपदेशः । गाथा-७९, ८०, ८१ - ज्ञानस्य पञ्चभेदाः ।। मतिज्ञानस्य स्वरूपम् ।।
१०३
तानेव दर्शयति -
पढम किर मइनाणं बीयं सुयमवहिनाणमह तइयं ।
मणपजवं चउत्थं पंचमं केवलं नाणं ।।७९।। ज्ञानशब्दः प्रत्येकमभिसम्बध्यते । किलेत्याप्तोक्तौ । तेषु पञ्चसु प्रथम मतिज्ञानं मतिज्ञानलक्षण: प्रथमो भेदः । द्वितीयं श्रुतम् श्रुतज्ञानम् । अवधिज्ञानमथ तृतीयम् । मनःपर्यायज्ञानम् चतुर्थम् । पञ्चमं केवलज्ञानमिति ।।७९।। इदानीं नामतो ज्ञानभेदानभिधाय स्वरूपतः प्रत्येकमभिधत्ते -
मिजइ नजइ जेणं सद्दो अत्थो य उग्गहाइहिं ।
तं वट्टमाणविसयं मइनाणं भन्नए तेसु ।।८।। तेषु पञ्चसु मध्ये तन्मतिज्ञानं भण्यते । येन किं ? येन मीयते परिच्छिद्यते । कः? शब्दो अर्थश्च । कैः? अवग्रहादिभिः । अवग्रहेहापायधारणालक्षणैः प्रकारैः । तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनमवधारणमवग्रहः । अवग्रहगृहीते विषयाथैकदेशाच्छेषाऽनुगमननिश्चयविशेषजिज्ञासा चेष्टा ईहा । अवगृहीतविषये सम्यगसम्यगितिगुणदोषविचारणाऽध्यवसायोऽपनोदोऽपाय: । धारणा प्रतिपत्तिर्यथास्वमत्यवस्थानमवधारणं चेति । अमीभिरवग्रहादिभिः शब्दार्थयोर्यथावत्परिच्छेदो मतिज्ञानम् । किंविशिष्टं? वर्त्तमानविषयं वर्तमानकालगोचरम् ।।८।। अस्यैव भेदोपदर्शनायाह -
भेया दुनि य चउरो अट्ठावीसा य अट्ठसठ्ठसयं ।
तिनिसया छत्तीसा मइनाणे हुंति नायव्वा ।।८१।। गाथा-७९ 1. मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ।। - तत्त्वा० १/९ ।। मइ-सुअ-ओही-मण-केवलाणि नाणाणि ।
_ - कर्म० वि० गा. ४ ।। गाथा-८० 1. मननं मति: परिच्छेद इत्यर्थः । मतिश्च सा ज्ञानं च मतिज्ञानम् । तञ्च श्रोत्रेन्द्रियव्यतिरिक्तं चक्षुरादीन्द्रियानक्षरोपलब्धिर्या तन्मतिज्ञानम् ।
___- तत्त्वा . सि.वृ. १/९ ।। मतिज्ञानं नाम यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानकालविषयपरिच्छेदि । - तत्त्वा. सि. वृ. १/१० ।। तत्र “बुधिं मनिंच ज्ञाने" मननं मतिः, यद्वा मन्यते - इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः - योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानम् ।।।
___ - कर्म. वि. स्वो. वृ. गा. ४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org