________________
१०२
हितोपदेशः । गाथा-७७, ७८ - ज्ञानदानस्य स्वरूपम् ।। ज्ञानस्य स्वरूपम् ।।
दिनैः कतिपयैः प्राप भाग्यभूभृगुपत्तनम् । प्रत्युद्यातश्च पुत्राभ्यां दस्राभ्यामिव सागरः ।।४५९।। युग्मम् ।। नरनाथप्रवेशार्ह प्रवेशोत्सवमस्य तौ । कारयामासतुः स्फीतप्रीतिपूरितमानसौ ।।४६०।। स कदाप्यथ पृथ्वीन्दोः सोमदत्तस्य कर्हिचित् । मनःप्रसादप्रासादे विललास यथासुखम् ।।४६१।। पुरोहितपदं भूपो ददतुर्देवशर्मणे । सेविता: समये सन्तस्तरवश्च फलप्रदाः ।।४६२।। एवं च कृतकर्त्तव्यौ भुजवीर्यार्जितां भुवम् । युगपद् बुभुजाते तो नरनारायणाविव ।।४६३।। असेविषातां धर्मं च तो कृतज्ञो निरन्तरम् । चक्रतुः शक्रमहसौ तत्प्रवृत्तिं प्रजास्वपि ।।४६४।। तदेवं सोमोऽयं महितमहसश्चारणमुने - नियोगाद् दुर्भिक्षे यदकृत कृपादानमसमम् । प्रभावात्तस्यायं जलनिलयमुत्तीर्य गहनम् । वणिग्वंशोत्पन्नोऽप्यभजदवनीनाथ पदवीम् ।।४६५।।
।। इति सोमदत्तकथा समाप्ता ।।७६।। श्रीः ।। साम्प्रतमनुकम्पादानव्याख्यानमुपसंहरन् ज्ञानदानानुयोगं चोपक्षिपन्नाह -
अणुकंपादाणमिणं भणियं लेसेण संपयं किंपि ।
नाणविसयं पि भणिमो जिणगणहरभणियनाएणं ।।७७।। अनुकम्पादानं दयादानम् इदं पूर्वोपवर्णितस्वरूपं भणितं व्याख्यातं लेशेन दिग्मात्रेण दानमित्यनुवर्तते । साम्प्रतं ज्ञानविषयमपिज्ञानगोचरमपि, दानं भणामः । तत् किं सर्वात्मना? न, इत्याह किमपि स्वरूपमात्रम् - ज्ञानानुयोगस्य हि छद्मस्थैर्यथावत् प्रथयितुमशक्यत्वात् । तत् किं स्वमनीषया? न, इत्याह जिनगणधरभणितन्यायेन । जिनाः-तीर्थकृतः, गणधरा:तेषामनन्तरशिष्याः, तैर्भणितो-दर्शितो यो न्यायस्तेन । तदुक्तयुक्तेरेव सहदामुपादेयत्वात् ।।७७ ।। अथ किमिदं ज्ञानशब्दवाच्यम् ? उच्यते -
नजंति जेण तत्ता जीवाजीवाइणो जिणवरुत्ता ।
तं इह भनइ नाणं तस्स य भेया इमे पंच ।।७८।। इहास्मिन् जैनेन्द्रशासने तत् ज्ञानं भण्यते । येन किम्? येनात्मनः परिणामविशेषेण ज्ञायन्ते परिछिद्यन्ते तत्त्वानि जीवाजीवादीनि, जिनवरोक्तानि तीर्थकृत्प्रणीतानि । तस्य चामी वक्ष्यमाणा भेदाः प्रकाराः पञ्च ।।७८।। 11. दस-अश्विनीकुमारौ - स्वर्गना बे वैद्य इति भाषायाम् । अ. चि. ना. स्वो. वृ. १८२ । दस्यतो हरतो
रोगान् दस्रौ । “भी वृद्दि" (उणा. ३८७) ।। गाथा-७८ 1. ज्ञप्तिर्ज्ञानं वस्तुस्वरूपावधारणमित्यर्थः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org