________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
क्वाऽन्यथा मथुराभूमिः क्व मे तत्र समागमः । क्व तादृगुपकारश्च समये तत्र नस्तव ।।३७६ ।। क्व मे नृपपदावाप्तिः क्व चेहागमनं तव । सर्वथाप्यनुकूलोऽभून्ममैवायं समीरणः ।।३७७।। नेदमीशानचन्द्रान्मे जन्म सागरतः खलु । ब्रह्मचन्द्रान मे राज्यं सोमदत्तात्तु तत्त्वतः ।।३७८।। इदं राज्यममी प्राणाः सर्वमेतत्तवैव मे । भ्रातर्दिष्ट्याद्य जातोऽसि नेत्रयोरतिथिर्मम ।।३७९।। इति भूपः समालप्य तं कृतज्ञशिरोमणिः । सर्वं तत्पूर्ववृत्तान्तं सामन्तादीनबोधयत् ।।३८०।। धुन्वानास्तेऽपि मूर्धानं प्रोचुर्विकचलोचनाः । स्थानेऽत्र स्वामिनस्तर्हि प्रतिपत्तिरकृत्रिमा ।।३८१।। काकिणीमपि मन्यन्ते कृतज्ञाः कोटिसम्मिताम् । किं पुनः समये तस्मिंस्तादृशं त्वादृशाः प्रभो ! ।।३८२।। साम्प्रतं साम्प्रतं तस्मात् स्वामिनः समुपस्थितः । अस्मिन् प्रत्युपकाराय पोतप्रत्यर्पणक्षणः ।।३८३।। व्याजहार धराधीश: स्मितपल्लविताधरः । कियत् पोतार्पणं प्राणदानेऽप्यस्यास्मि नानृणः ।।३८४।। सुबह्वप्यधुना क्लृप्तं कृते प्रतिकृतं भवेत् । उपचक्रे त्वसौ पूर्वमकृतोपकृतिमयि ।।३८५।। सांयात्रिकपतिः प्रोचे कीटमात्रेण किं मया । विदधे देवपादानां यन्मूलेयं मम स्तुतिः ।।३८६।। स्तुत्यः स तत्त्वतः स्वामिन् महात्मा मुनिपुङ्गवः । अनागतमिदं यस्य सङ्क्रान्तं ज्ञानदर्पणे ।।३८७।। एवं वदत एवास्य द्युतिद्योतितदिग्मुखः । गगनाग्रे स एवागादनगारगणाग्रणीः ।।३८८।। किमेतदिति सम्भ्रान्तैः क्षितिनाथादिभिस्ततः । अभ्युत्थितस्तपोराशिरासितश्च नृपासने ।।३८९।। सोमदत्तस्ततः प्राह देव ! सोऽयं महामुनिः । इदानीं देवपादानां विज्ञप्तं यद्गतं मया ।।३९० ।। सविशेषं ततः पादौ मुनेरवनिवासवः । प्रणनाम नमन्मौलि: समं सामन्तमन्त्रिभिः ।।३९१।। अथ बद्धाञ्जलिर्मूनि सोमः संयमिनं जगौ । ममाभूत् तद् दयादानममोघमघनाशनम् ।।३९२।। वचोमृतं विमुञ्चन्ति हेलया यन्महोन्नताः । तेनैव जीवति कुलं सकलं चातकार्थिनाम् ।।३९३।। मुनिराह "महाभाग ! गुह्यनागसधर्मणः । अणोरपि हि जैनस्य धर्मस्याऽस्य फलं महत् ।।३९४ ।। अनुस्मरणमप्यस्य राजन् ! धर्मस्य शर्मणे । किं पुनः सकलक्लेशनाशनं समुपासनम् ।।३९५ ।। समानेऽपि हि मानुष्ये समानेऽपीन्द्रियव्रजे । सेव्यसेवकभावोऽयं धर्माधर्मनिबन्धनः ।।३९६।। अधर्मपरिहारेण तवाप्यवनिवासव ! । युक्तो धर्मोद्यमस्तस्मात्तस्य मूलमिदं पुनः ।।३९७ ।। अष्टाभिरधिकैर्दोषैर्दशभिर्दूरमुज्झिते । अनन्तदर्शनज्ञाने जिने देवत्ववासना ।।३९८ ।। हिंसादिरहिते सत्यवादिनि स्तेयवर्जिते । ब्रह्मचारिणि निःसङ्गे गुरौ च गुरुभावना ।।३९९।। उत्तमैः पुरुषः प्रोक्ते तद्विधैरेव सेविते । अविसंवादनिळजे धर्मे सद्धर्मशेमुषी ।।४००।। इदं रत्नत्रयं राजन् हृदयाभरणं कुरु । येनासि मुक्तिकामिना सुभगम्भावुकः सदा ।।४०१।। इदं मोक्षतरो।जमिदं विश्वेऽपि दुर्लभम् । इदमेवास्य धर्मस्य रहस्यमविनश्वरम् ।।४०२।। भूर्भुवःस्वःश्रियस्तास्ताः फलमस्यानुषङ्गिकम् । मुख्यं पुनरसङ्ख्येयसौख्यं मोक्ष प्रचक्षते ।।४०३।। चत्वार्यमूनि चाङ्गानि दुर्लभानीह देहिनाम् । मानुषत्वं श्रुतिः श्रद्धा संयमे वीर्यमुत्तमम् ।।४०४।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org