________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
लोलकल्लोललीढाधं भ्राम्यत्तिमिकुलाकुलम् । लीलया जलधिं तीा निमग्ना गोष्पदेऽपि हा ।।३४८।। आ स्वभावमहेच्छस्य महोत्साहस्य धीमतः । उदारस्य प्रकृत्यैव प्रकृत्या प्रियवादिनः ।।३४९।। परोपकृतिदक्षस्य दाक्षिण्यैकमहोदधेः । किमस्यापि हि सोमस्य प्रतिकूलं भविष्यति ।।३५० ।। अहो देवस्य दौरात्म्यं ही किमेतदुपस्थितम् । परतीर्थगते पोते सर्वस्वमपि यास्यति ।।३५१।। इति खेदाद् ब्रुवाणेऽथ पोतमध्यगते जने । विफलीकृत्य यत्नं तल्लग्नं यानं द्रुतं तटे ।।३५२।। कुलकम् ।। प्रसारितमुखै रात् भृगुपत्तनशौल्किकैः । अपतीर्थोपगं यानमिति प्रमुदितान्तरैः ।।३५३।। क्षुद्रपोतसमारूढेस्तद् वहिनं समन्ततः । पदातिपरिवेषेण भूयिष्ठेनैत्य वेष्टितम् ।।३५४ ।। युग्मम् । विमृशद्भिश्च पोतान्त: सारवस्तुसमुच्चयम् । अलक्षि दक्षरक्षेपात् कोटीविंशतिसम्मितम् ।।३५५।। अहो पृथूनि पुण्यानि पृथ्वीचन्द्रस्य भूपतेः । अक्लेशेनैव कोशोऽयं यस्येत्थं समुपस्थितः ।।३५६।। इति ब्रुवाणैस्तै: प्रैषि प्रधानपुरुषः क्षणात् । उपभूपं स्वरूपस्य तस्य बोधाय धीधनैः ।।३५७।। युग्मम् ।। तदा च सोमदत्तस्य चक्षुः पुस्फोर दक्षिणम् । समस्तशस्तविस्तारपुरस्कारैकदक्षिणम् ।।३५८।। श्रुतपूर्वश्च तन्नाम पृथ्वीचन्द्रस्य भूपतेः । किं स्यात् स एव पृथ्वीन्दुर्यः पुरा मथुरामगात् ।।३५९।। श्रुतं चेदं तदैवासीत् मया तस्मात् सुमेधसः । यदयं पृथिवीनाथ - सूनु गुपुरं गमी ।।३६०।। अतोऽस्ति तावद् घटना शकुनं चोत्तमं मम । तत्त्वतस्तु किमप्यत्र न जाने यद् भविष्यति ।।३६१।। एवं विमृशतस्तस्य सोमदत्तस्य विस्मयात् । वासवश्रीरुपेयाय वेलाकूलमिलापतिः ।।३६२।। कलापकम् ।। प्रदेशे पाविते तत्र जलेर्मेकलकन्यया । उत्तीर्य सिन्धुरस्कन्धात् भेजे भद्रासनं नृपः ।।३६३।। परिवृत्य च राजानं विष्वग् ऋक्षगणा इव । मण्डलेशादयस्तस्थुस्तदास्यनिहितेक्षणाः ।।३६४।। तत: पोतपतिं भूपः स्वसमीपमनाययत् । विधाय यानपात्रस्य निजाप्तैः परिरक्षणम् ।।३६५ ।। क्षणादगणितैरात्मपादातैः परिवेष्टितम् । दत्तनेत्रपुरः सोमदत्तं नृपतिरेक्षत ।।३६६ ।। आ: कुतोऽयमिति प्रीतिपूरविस्फारितेक्षणः । ससम्भ्रममथोत्तस्थौ पृथ्वीनाथस्तदासनात् ।।३६७।। सोमदत्तोऽपि निश्चित्य भूपतिं तं तथैव हि । यावत् प्रणन्तुमारेभे तावत् भूपेन सस्वजे ।।३६८।। अन्तःप्रवेशनायेव गाढमालिङ्ग्य भूभुजा । आसनार्द्ध निजे स्नेहाद् बलादपि निवेशितः ।।३६९।। किमेतदिति सम्भ्रान्तैर्वीक्ष्यमाणः क्षितीश्वरैः । भ्रातर्व्यतिकरः कोऽयं कुशलं पितुरावयोः ।।३७०।। कथं तवेहागमनं विलुप्तं किमपीह ते । इति राज्ञा स्वयं पृष्टः सोमदत्तो व्यजिज्ञपत् ।।३७१।। कुशलं देव तातस्य देवपादप्रसादतः । व्यवहारस्वरूपेण गृहान्मम विनिर्गमः ।।३७२।। आयतस्तामलिप्तीये तीर्थे यानं विशन्मम । प्रतिकूलेन वातेन प्रवेशितमिमां भुवम् ।।३७३।। विलुप्तं च न मे किञ्चिदद्य यावदिह प्रभो ! । पुरस्तु देवपादानां विदितं सर्वमप्यदः ।।३७४ ।। सप्रसादमथावादीनृपः सोम ! समीरणम् । अनुकूलमपि ब्रूषे प्रतिकूलममुं कथम् ।।३७५।। 9. शौल्किक - शुल्के नियुक्तः शौल्किकः । शुल्काध्यक्ष इति अर्थे । - अ. चि. ना. स्वो. वृ. ७२४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org