________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
वृथा धान्योत्थसूष्माणं कोष्ठागाराणि तानि मे । वहन्ति नरशार्दूल ! त्वय्येवं विकलीकृते ।।२६९।। तत् प्रसीद सह स्वेन परीवारेण मद्गृहम् । अलङ्कुरु नराधीशसूनो ! निजमिवान्वयम् ।।२७०।। अभिधायेति मूर्धानं निधाय पदपद्मयोः । निजहर्योन्मुखं चक्रे कुमारं सागरात्मजः ।।२७१।। अहो निष्कारणं प्रेम चिरं भक्तिरकृत्रिमा । महदाश्चर्यमौदार्य कौतुकायोपकारिता ।।२७२।। मनुष्यजन्मनोऽप्यस्य प्रकृतिः काप्यमानवी । अनेन नररत्नन रत्नगर्भव भूरियम् ।।२७३।। इत्यादि तद्गतं चित्ते चिन्तयनृपनन्दनः । चचाल सपरीवारः सोमदत्तगृहं प्रति ।।२७४।। कुमारोऽग्रेसरान् कृत्वा प्रधानपुरुषान् स्वयम् । पुरो गत्वा पितुः सोमस्तदशेषं व्यजिज्ञपत् ।।२७५।। अतुल्यात् पुत्रवात्सल्यात् प्रचुरायान्नसङ्ग्रहात् । विजघ्ने वाञ्छितं नास्य सागरेणापि तत्तदा ।।२७६।। अभ्युत्तस्थौ समायान्तं कुमारमथ सागरः । ससम्भ्रमं कुमारोऽपि पितृवत्तमुपाचरत् ।।२७७।। प्रियालापविनोदेन तस्थुषोः क्षणमेतयोः । सिद्धां रसवतीं सूदपतिरेत्य व्यजिज्ञपत् ।।२७८।। महत्या प्रतिपत्त्याथ भोजयामास सागरः । कुमारं सपरीवारं विविधैर्भोज्यवस्तुभिः ।।२७९।। भोजनान्ते च सत्कृत्य विचित्रैर्वस्त्रभूषणैः । पथि पाथेयसौख्यार्थमन्वशादिति नन्दनम् ।।२८०।। वत्स ! गच्छत्रितः स्थानं वाञ्छितं नृपनन्दनः । यथा सुखमवाप्नोति तथा पाथेयमर्पय ।।२८१।। समाकर्ण्य च तत् सोमः सौमनस्यं दधेऽधिकम् । उत्कण्ठिता च प्रथमं मयूरेण च कूजितम् ।।२८२।। अथोष्ट्र- वामी-वृषभलुलायपणपृष्ठगाः । गोणीरगणिता धान्यैः सोमः शीघ्रमपूपुरत् ।।२८३।। कुमारोऽपि हि सम्प्रेक्ष्य तत्कृतां तामुपक्रियाम् । कोशाध्यक्षेण सकलं निजं कोशमनाययत् ।।२८४ ।। निधाय तं पुरः प्रीत्या समुद्दिश्य च तावुभौ । कुमारः प्रोचिवानेवमानन्दाश्रुकणान् किरन् ।।२८५।। क्रियते विधुरेऽमुष्मिन् न यत् पित्रा न बान्धवैः । तदसम्बन्धबन्धुभ्यां भवद्भ्यां मे विनिर्ममे ।।२८६।। न तत् त्रिभुवनेऽप्यस्ति मदायत्तं वितीर्य यत् । अनृणोऽहं भविष्यामि भवतोरुत्तमर्णयोः ।।२८७।। तथापि गृह्यतामेष कोशः कृत्स्नोऽपि मेऽधुना । एतावतैव मन्येऽहं मनागुच्छासमात्मनः ।।२८८।। वदन्तमिति सौजन्याजगतीपतिनन्दनम् । समस्तौचित्यचतुरः सागरः प्रोचिवानिति ।।२८९।। एतावदेव किं वत्स धत्से भाराय मानसे । तव सोमस्य चायत्ता नन्वेता मे विभूतयः ।।२९०।। त्वयि सौजन्यलाभेन किं वा नैवाजितं मया । विजयाय व्रजासाध्यान् साधय क्षेममस्तु ते ।।२९१।। इति संस्थाप्य सस्नेहं कुमारं सोममालपत् । वत्स ! गच्छ निजं बन्थुमनुव्रज नृपात्मजम् ।।२९२।। इत्युक्तः सोमदत्तोऽथ समं क्षितिपसूनुना । जगाम शिबिरं तास्ताः प्रथयन् प्रेमसङ्कथाः ।।२९३।। कुमारोऽपि प्रयाणाय तदा भेरीमताडयत् । विससर्ज च वाचैव सोमदत्तं हृदा न तु ।।२९४ ।। स्मर्त्तव्यः समये क्वापि जनोऽयं नृपनन्दन ! । सगद्गदमिति प्रोच्य सोमः स्वगृहमाययौ ।।२९५ ।। 4. वामी-अश्वः । वमति गर्ने वामी, ज्वलादित्वात् णे गौरादित्वात् डी, वातेर्वा “अर्ती रि" (उणा. ३३८) इति म: । - अ. चि. ना. स्वो. वृ. १२३३ । अथोष्ट्रवामीशतवाहितार्थः ।
- रघु० ५/३२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org