________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
प्राणनाथे तटस्थेऽपि विनाथेव तदाऽथ सा । तद्गुणावर्जितेनेव कालेनापि हता बलात् ।।२४०।। तदूर्ध्वदेहिकादूर्ध्वमपि भूमीभुजङ्गमः । कालं कियन्तमप्यस्थाद् दुःस्थस्तच्छोकशङ्कुना ।।२४१।। क्रमात् प्रववृतेऽनङ्गसुन्दर्यां नृपतेर्मनः । प्रेम दर्शनसारं हि प्रायेण न गुणानुगम् ।।२४२।। तया वशीकृतमतिर्मन्दं मन्दं महीपतिः । सोमचन्द्रं सुतं तस्याः सप्रसादमुदैक्षत ।।२४३।। तन्मातापि भृशं भर्तृप्रसादमदविह्वला । अवन्तिसुन्दरीसूनोरपमानमदर्शयत् ।।२४४।। क्रमात् पल्लववन्मन्दरागमात्मनि मानसं । विदत्रपि पितुर्भक्तिं पृथ्वीन्दुर्विदधेऽधिकम् ।।२४५।। सोदर्येण नरेन्द्रस्य ब्रह्मचन्द्रेण भूभुजा । जज्ञे भृगुपुरेशेन वृत्तान्तोऽयं क्रमादथ ।।२४६।। प्रधानपुरुषान् सोऽथ प्रेषयित्वा नृपान्तिके । आह्वास्त पृथिवीचन्द्रं स्नेहवृत्त्या निजान्तिके ।।२४७।। प्रेरितोऽनङ्गसुन्दर्या तं प्रति प्रतिकूलया । विससर्ज महीनाथः पृथ्वीन्दं सपरिच्छदम् ।।२४८।। शेषामिव शिखाग्रेऽथ पितुराज्ञां निधाय सः । सान्त:पुरपरीवारः प्रस्थितो भृगुपत्तनम् ।।२४९।। अकुण्ठां दर्शनोत्कण्ठां पितृव्यस्य भृशं वहन् । स यावदाययौ वर्त्म कियदप्यवनीन्द्रसूः ।।२५०।। दुष्कालजलधिस्तावद् दुष्कल्लोलोऽयमन्तरा । विपाक इव पापस्य प्रजानां समुपस्थितः ।।२५१।। प्रक्षीणे पूर्वपाथेये पृथिवीनाथनन्दनः । पुष्कलेनापि निष्केन क्वचिदन्नमनाप्नुवन् ।।२५२।। आतृतीयदिनादत्र निरन्नः समुपागमत् । उपस्तूपं स्वकीयं च स्कन्धावारं न्यवीविशत् ।।२५३।। युग्मम् ।। तत्र स्थितस्त्वदीयं स कीर्तिकोलाहलं कलम् । शुश्राव बन्दिवृन्देभ्यः सत्रदानसमुद्भवम् ।।२५४।। तस्मात् सम्भाव्य धान्यस्य सञ्चयं तव वेश्मनि । अङ्गुलीयं लक्षमूल्यं दत्त्वाऽस्मि प्रेषितस्त्वयि ।।२५५।। मुद्रारत्नमुपादाय तदेतत् सत्त्वसंश्रय ! । विपत्पाथोनिधेरस्मात् समुद्धर मम प्रभुम् ।।२५६।। इत्युक्त्वा चार्पयामास तत् तस्मै सोऽङ्गुलीयकम् । समुन्मीलत्प्रभाजालजटालितनभोऽन्तरम् ।।२५७।। स्थाने महात्मना तेन मुनिना मे कृपालुना । समादिष्टं कृपादानं दीनानाथोद्धृतिक्षमम् ।।२५८।। अन्यथा क्व महीनाथनन्दनस्येदृशी दशा । क्व मे नैगममात्रस्य प्रार्थनेत्थं प्रथीयसी ।।२५९।। द्वारेणानेन तस्मान्मे कोऽप्ययं समुपस्थितः । कल्याणकन्दलीकन्द-सान्द्रसम्पत्फलोदयः ।।२६० ।। विचिन्त्येति चिरं चित्ते सोमदत्तस्तमब्रवीत् । भद्र ! तिष्ठतु मुद्रेयं तवैव करगोचरे ।।२६१।। एहि तत्रैव गच्छावस्तव भर्तुः पदान्तिके । इत्युक्त्वा सह तेनासौ कुमारशिबिरं ययौ ।।२६२।। तत्र च द्वारपालेन निवेदितसमागमः । स विवेश नरेशाङ्गजन्मनः संसदन्तरम् ।।२६३।। चन्द्रवजनितानन्दं पृथ्वीचन्द्रं नृपात्मजम् । स्निग्धं बन्धुमिवालोक्य मुमुदे सागराङ्गजः ।।२६४।। सोमदत्तं च सम्प्रेक्ष्य कुमारोऽपि हि पिप्रिये । निर्निबन्धनबन्धू तो सुधांशुकुमुदे इव ।।२६५ ।। प्रणामप्रवणं सोममालिलिङ्ग नृपाङ्गजः । प्रतिपत्तिः सतां प्रायः पात्रौचित्यात् प्रवर्त्तते ।।२६६ ।। दर्शयत्रिव नैर्मल्यं मनसो दशनांशुभिः । चकार कुशलालापं कुमारः सागराङ्गजे ।।२६७।। श्रुतपूर्वी कुमारस्य दुर्दशामथ सोऽब्रवीत् । कथं नु कुशलं मेऽस्तु त्वयीत्थं नाथ ! दुःस्थिते ।।२६८।।
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org