________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
विहतेऽन्यत्र तीर्थेशे सा कुबेरा सुराङ्गना । प्रत्यक्षीभूय मथुरासङ्घ विज्ञपयिष्यति ।।१८२।। सङ्घभट्टारकेणेदं श्रुतं भगवतो वचः । यद् दुःषमानुभावेन लोभान्धा भाविनो जनाः ।।१८३।। पितरं भ्रातरं पुत्रं सुहदं स्वामिनं गुरुम् । वञ्चयित्वापि विश्वस्तं ग्रहीष्यन्ति धनं जनाः ।।१८४ ।। देवद्रव्याणि देवांश्च निःशूका नास्तिका इव । भक्षयिष्यन्ति निःशङ्ख विक्रेष्यन्ति च दुर्द्धियः ।।१८५।। सुवर्णमणिरूपश्च स्तूपः प्रकटकोशवत् । पालितोऽयमियत्कालं जने सत्त्वधने मया ।।१८६।। अतः परममर्यादे लोके कामं प्रमत्तया । शक्यते न परित्रातुमयमेवं स्थितो मया ।।१८७।। एवं स्थिते च श्रीसङ्घः प्रसद्याज्ञां ददातु मे । येनेष्टकचितं स्तूपमुपरिष्टात् करोम्यहम् ।।१८८।। उत्पत्स्यते पदे मेऽत्र या किलान्यापि देवता । अन्तर्हितमिदं स्तूपं सा ध्रुवं पूजयिष्यति ।।१८९।। युक्तियुक्तं वचस्तस्यास्तच्छ्रुत्वा दीर्घदर्शिना । सङ्घन समनुज्ञाता सा तथैव विधास्यति ।।१९०।। कूटाभिमाननटितैः कैश्चित् काले कियत्यपि । नेष्टिकावेष्टनं साधु स्तूपस्यास्येति वादिभिः ।।१९१।। जराप्रलापोऽयमिति हसद्धिवृद्धवारणाम् । पाषाणवेष्टनायैष पुनरुद्घाटयिष्यते ।।१९२।। ज्ञात्वा व्यतिकरं तव पुरोऽस्याः पृथिवीपतिः । अयुक्तलोभसङ्क्षोभः स्वीयानिति भणिष्यति ।।१९३।। निवेशयत भोः कोशे छित्त्वा स्तूपमिदं मम । समुद्र इव रत्नानामहमेवास्य भाजनम् ।।१९४।। उपक्रमं करिष्यन्ति छेत्तुं तेऽथ तदाज्ञया । विफलीभूतयत्नाश्च कथयिष्यन्ति तस्य तत् ।।१९५।। शङ्कातङ्काकुलं चेतो भवतामिति विब्रुवन् । छेत्तुमात्तकुठारः स स्वयमत्रागमिष्यति ।।१९६ ।। निशङ्कश्च कुठारेण स स्तूपं प्रहरिष्यति । प्रतीपपतितेनाथ तेनास्य छेत्स्यते शिरः ।।१९७।। साक्षाद्भूयाथ गगने कोपाटोपारुणेक्षणा । तर्जयन्ती जनान् सर्वान् देवतैवं वदिष्यति ।।१९८ ।। रे रे ! मदीयस्तूपस्य मनसाऽपि हि विप्रियम् । चिन्तयिष्यति यस्तस्य करिष्ये गतिमीदृशीम् ।।१९९।। प्रसादिताऽथ लोकेन त्रस्तेन त्रिदशाङ्गना । सोपालम्भं सङ्घलोकमुद्दिश्यैवं भणिष्यति ।।२०० ।। इष्टिकावेष्टनमिदं भवद्भिः किमपाकृतम् । भवत्कृतः प्रमादोऽयं स्तूपस्येत्थमुपस्थितः ।।२०१।। यद्यस्ति भवतां भक्तिश्चित्ते तत् क्रियतां ननु । इष्टिकावेष्टनस्यास्योपरि पाषाणवेष्टनम् ।।२०२।। तथेति प्रतिपेदानं सङ्घलोकं सुराङ्गना । क्षमयित्वा तद्वदेव कृत्वा स्तूपं च यास्यति ।।२०३।। तथास्थितश्च स्तूपोऽयं सोमदत्त ! कलावपि । चिरकालमवस्थाता स्वप्रभावेन रक्षितः ।।२०४।। प्रभावनार्थं जैनस्य शासनस्येति तो मुनी । प्रथयामासतुस्तीर्थमित्थं देवतया तया ।।२०५।। अतस्त्वमपि हे वत्स ! गुरुवत्सल ! शासने । जैने प्रभावनाभङ्गीं तरङ्गयितुमर्हसि ।।२०६।। श्रुत्वा स्तूपस्य वृत्तान्तं शान्तचित्तान्मुनेरिति । व्यजिज्ञपदिदं हर्षात् सादरः सागराङ्गजः ।।२०७।।" देवशर्माभिधानस्य पितृमित्रस्य शासनात् । पुरैव भगवन् ! मेऽस्ति जैनधर्मे दृढं मनः ।।२०८।। उपदेशोऽधुना यस्तु पूज्यपादैः प्रसादितः । स मे सुकृतसौभाग्यतरोरुपरि मञ्जरी ।।२०९।। यतिष्ये युष्मदादेशात् सविशेषमतः परम् । धर्मकर्मणि किन्त्वेकः प्रसादः क्रियतां मयि ।।२१०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org