________________
हितोपदेशः । गाथा - ७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
कृतोपकारयोरेवं भवतोर्दर्शनं विना । नावस्थातुं समर्थाऽहं 'शकुलीव जलादृते । । १२७ ।। अतः प्रसद्यावस्थानं सदैवात्र विधीयताम् । उपरोधाम्बुधौ चित्ते प्रार्थना मे निधीयताम् ।।१२८ ।। निगदन्तीमिमामेवं भक्त्या जगदतुर्मुनी । कुरुषे गुरुषु स्थाने गौरवं गुरुवत्सले ! ।।१२९।। किन्तु चिन्तय तत्त्वज्ञे ! सर्वज्ञाज्ञामिमामिह । विहङ्गानामिवैकत्र न मुनीनामवस्थितिः । । १३० ।। प्रतिबन्धो लघुत्वं च न परोपकृतिस्तथा । ज्ञानादीनामवृद्धिश्च दोषाः स्युर्नित्यवासिनाम् । । १३१ ।। अनवद्यमनिन्द्यं च वृत्तं व्रतभृतामिदम् । संविदानाऽपि किं वत्से ! धत्से खेदोदयं हृदि ।। १३२ ।। तस्मादस्मद्गतामेतां ममतामार्हते मते । सविशेषं दधाना त्वमेद्धि सद्धर्म्मकर्म्म वा । । १३३ ।। एवं प्रबोधिता ताभ्यां मुनिभ्यां सा सुराङ्गना । निःप्रत्याशा तयोस्तस्थावस्थाने पुनरभ्यधात् ।। १३४ । निःसङ्गताऽस्ति युवयोर्यद्यप्येवं तथापि हि । कृत्यादेशेन केनापि प्रसादः क्रियतां मयि ।। १३५ ।। किमप्यनुपकृत्याहं भवतोरुपकारिणोः । सन्तोषं न भजे पूज्यौ ! जजल्पतुरिमावथ ।। १३६ ।। विमुक्तलोकचिन्तानां निस्पृहाणां वपुष्यपि । मुनीनामनगाराणां कृत्यं केनास्तु वस्तुना । । १३७ ।। निर्बन्धात् प्रार्थयन्तीं तां भूयस्तावेवमूचतुः । यद्येवं क्रियतामेतत् कृत्यमेकमिहावयोः । ।१३८ । । सङ्गेन मथुरापुर्याः सहावां सुरभूधरे । यथा वन्दावहे देवान् कल्याणि ! क्रियतां तथा ।। १३९ ।। विमृश्य जगदे साऽथ भगवन्तौ तदन्तरा । मिथ्यादृशः सुराः सन्ति मत्तस्ते बलवत्तराः । । १४० ॥ अतः सङ्घमहं तत्र क्षमा प्रापयितुं न हि । युवां पुनर्नयाम्येषा गम्यतामधुनैव हि । । १४१ । । अभ्यधातां मुनी मुग्धे ! शुद्धसिद्धान्तचक्षुषा । करामलकवत् साक्षात् सुरभूमीधरोऽस्ति नौ । ।१४२ ।। प्रभावनार्थं जैनेन्द्रशासनस्येदमीरितम् । असमर्थासि चेत्तत्र मुञ्च मुग्धे तदाग्रहम् ।।१४३ ।। एवं च निरपेक्षाभ्यां मुमुक्षुभ्यामपाकृता । जगाद देवी मन्दाक्षविलक्षवदना पुनः । । १४४ । । भुज्यते तावदेवेह यावन्मात्रं हि जीर्यति । उत्पाट्यते भरस्तावान् यावान् मार्गे न मुच्यते । । १४५ ।। पुरः प्रमाणपुंसां च तावदेवोच्यते वचः । यावन्निर्वाह्यते तस्मादप्रसादोऽस्तु मा मयि । । १४६ ।। प्रतिच्छन्दमहं मेरोः करोमि भवदाज्ञया । अत्रैव सह सङ्गेन तत्र कृत्यं विधीयताम् । । १४७ ।। एवमस्त्विति सन्दिष्टा मुनिभ्यां सा सुराङ्गना । दिव्यशक्त्या स्तूपगेहं सौवर्णं स त्रिमेखलम् ।।१४८ ।। रत्नसानुं च चूलाग्रजाग्रज्जैनेन्द्रमन्दिरम् । निशीथसमये चक्रे शक्रक्रीडाचलोपमम् ।।१४९।। युग्मम् ।। पुरीपरिसरे प्रात: स्तूपं स्वर्णमणीमयम् । लोका विलोकयाञ्चक्रुर्दिवः खण्डमिव च्युतम् । । १५० ।। कथा प्रथामथावाप सा तस्यां पुरि सर्वतः । उपस्थितास्तीर्थिकाश्च तत्र ताथागतादयः । । १५१ ।। पार्थिवे सपरीवारे पौरलोकेऽप्युपेयुषि । सन्निवेशः पुरस्तस्याः तत्रापर इवाभवत् । । १५२ ।।
९०
3. शकुली - बहु झडपथी दोडती लाल रंगनी माछली । शक्नोतीति शकुलः “हृषिवृति' (उणा. ४८५) इत्युल: अ. चि. ना. स्वो. पृ. १३४५ । (शकुल + स्त्रियां जाति ङीप् ) शकुली रोहिताकारा भूगौ: प्रायश्चरत्यसौराजवल्लभः ।
श. र. म. पृ. १९८५ ।। www.jainelibrary.org
Jain Education International 2010_02
For Private & Personal Use Only