________________
हितोपदेशः । गाथा - ७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
धर्म्मघोषो धर्म्मरुचिरति द्वौ मुनिपुङ्गवो । सुदुष्करतपः शक्ती शान्तौ दान्तौ क्षमानिधी ।। ९९ ।। शरीरनिरपेक्षौ तौ कुर्वाणौ दुष्करं तपः । विहरन्तौ कदाप्यस्यां मथुरायामुपेयतुः । । १०० ।। तदा प्रववृते चातिभीष्मग्रीष्मोष्ममूर्च्छितम् । समुज्जीवयितुं विश्वं दयालुरिव वारिदः । । १०१ । । प्रस्थानस्थासकं कुर्वन् योषितः प्रोषितप्रियाः । जगर्ज तर्जयत्रुः पाथोदः पथिकव्रजान् ।। १०२ ।। सौदामिनीं शतघ्नीं स्वां स्फोरयन्त्रम्बरेऽम्बुदः । बभ्रमान्वेषयंस्त्रस्तं ग्रीष्ममिन्द्रधनुष्करः ।। १०३ ।। धाराधरे वारिधाराधोरणीभिः प्रवर्षति । अन्तरिक्षं दधे यन्त्रधारागृहसगोत्रताम् ।। १०४ ।। समुल्लङ्घित्तमर्यादा रसोद्रेकेण जज्ञिरे । प्रतिकूलविसर्पिण्यस्तटिन्यः कुलटा इव । । १०५ ।। पयोदस्य प्रियस्येव सङ्गमाद् भूमिभामिनी । आविश्चकार रोमाञ्चं नवाङ्कुरोद्गमच्छलात् ।।१०६।। एवं पयोदसमये प्रवृत्ते तो महामुनी । संस्मरन्तौ स्वसमयव्यवस्थां स्थिरमानसौ । । १०७ ।। देवतायाः कुबेराया भवने वनमध्यगे । अवग्रहमनुज्ञाप्य संलीनाङ्गाववस्थितौ ।। १०८ ।। युग्मम् ।। धर्म्मध्याननिलीनौ तौ चतुर्मासीमुपोषितौ । स्वाध्यायमधुरध्वान - सम्प्रीणितमृगार्भकी । । १०९ ।। मनःसमत्वभावेन भावितैर्मुक्तमत्सरैः । सेव्यमानो हरिकरिद्वीपिशम्बरशूकरैः । । ११० ।। विमुक्तलोकव्यापारावप्रमत्तावहर्निशम् । हृदये मुमुदे देवी पश्यन्ती मुनिपुङ्गव । । १११ । । विशेषकम् ।। तयोस्तपःप्रभावेन सम्यगावर्जितान्तरा । कुबेरा किङ्करीवाऽथ मुमुचे नैव सन्निधिम् ।। ११२ ।। आविष्कृत्य निजं रूपं नक्तं भ्रात्रोरिवैतयोः । शुश्राव देशनां हृद्यां धन्यम्मन्या दिने दिने । । ११३ ।। निर्वाणश्च क्रमेणास्या हृदि मिथ्यात्वपावकः । प्ररूढः प्रौढमूलश्च सम्यक् सम्यक्त्वपादपः ।।११४।। तथाऽभूद् भक्तिरागोऽस्यास्तयोरुपरि निर्भरः । यथाऽवधीरिताशेषकृत्या तावेव सेवते । । ११५ ।। गच्छत्सु दिवसेष्वेवमदीनमनसोस्तयोः । क्रमादुपनता तत्र कार्तिकस्य सिताष्टमी । । ११६ ।। प्रतिबन्धं तथा तस्याः पश्यन्तौ तौ मुनी ततः । मनाक् श्लथयितुं पूर्वमेव तामेवमूचतुः । ।११७।। तव साहाय्यतो भद्रे भद्रेणैवायमावयोः । वर्षाकालोऽतिचक्राम धर्म्मध्याननिलीनयोः । । ११८ । । पूर्णावधी भविष्याव: कार्त्तिकीपूर्णिमातिथो । पुरेव विहरिष्यावः पुरग्रामाकरादिषु । । ११९ । । अतः शय्यातरीति त्वमनागतमुदीर्यसे । दृढानुरागया भाव्यं भद्रे ! जैनेन्द्रशासने । । १२० ।। सुलभं देवजन्मापि सुलभा भूरिभूतयः । केवलं दुर्लभो लोके धर्म्म एव जिनोदितः । ।१२१ । । अकस्मात् तत् तयोः श्रुत्वा वचनं गमनोन्मुखम् । मुमूर्च्छ तत्क्षणं देवी पविनेवाथ ताडिता । । १२२ ।। चिरेण प्राप्य चैतन्यं निरानन्दाऽब्रवीन्मुनी । किमर्थमिदमाख्यातं मुनीन्द्रौ ! परुषं वचः ।। १२३ ।। न स्मरामि निजां तावदभक्तिं भक्तवत्सलौ ! भवेद् वा क्षम्यतामत्र निजापत्ये कृपार्णवी ! ।। १२४ ।। भवाम्भोनिधिपोताभ्यां भवद्भ्यां भवनं निजम् । विभूषितमहं मन्ये धन्यं सिद्धाश्रमादपि । । १२५ ।। मिथ्यात्वपरिघं भङ्क्त्वा मुक्तिद्वारोपरोधकम् । निधानमिव सम्यक्त्वं भवद्भ्यां मे प्रसादितम् ।। १२६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
८९
www.jainelibrary.org