________________
हितोपदेशः । गाथा - ७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
कुलादिभिः समानानां कन्यानां पाणिपीडनम् । सागरेण कुलाचारपारगेण स कारितः । १७३ ।। भुञ्जानश्च समं ताभिः सुखं वैषयिकं सुखम् । स यान्तमपि नो कालं कलयामास मांसलम् ।।७४ ।। अन्यदा च सुहृद्वर्गः सवयोभिः समन्वितः । जगाम स्तूपरूपेऽसौ प्रासादे देवनिर्मिते ।। ७५ ।। स्तूपं प्रदक्षिणीकुर्वन् कौतुकोत्तानलोचनः । स ददर्श मुनिं कञ्चिद् गभस्तिभानुभास्वरम् ।।७६।। तस्य पश्यत एवासी मुनिः स्तूपोपरिस्थिताः । यथाविधि नमस्कृत्य प्रतिमाः शाश्वतार्हताम् ।। ७७ ।। कुर्वन् प्रदक्षिणं स्तूपं सुमेरुमिव भास्करः । तपस्तेजोमयोऽधस्तादुत्ततार निराश्रवः ।।७८ ।। मेखलायामधस्तन्यां श्रीसुपार्श्वप्रभोरथ । प्रतिमां स नमस्कृत्य स्तोतुमित्युपचक्रमे ।। ७९ ।। " श्रीसुपार्श्वप्रभोः पादपद्यमछद्यमानसः । श्रये श्रेयः श्रिये यस्मिन् मरालति जगत्त्रयी ।।८० ।। लोकोत्तरामपि त्यक्त्वा लक्ष्मी स्वर्लोकसम्भवाम् । यस्यामीशावतीर्णस्त्वं कथं शिवपुरी न सा ।। ८१ ।। लब्धोदये त्वयि प्रेङ्खत्प्रभापटलभास्वति । आविर्भूतं पदार्थेश्च तमोभिश्चास्तमान्तरैः ।।८२ ।।
नीलोत्पलश्लाध्यं सुधाकुम्भनिभं मुखम् । विश्वस्याभूत् तवाधीश ! दृष्टमिष्टार्थसिद्धये ।। ८३ ।। सबाह्याभ्यन्तरक्लेश दवथुव्यथितां भुवम् । स्वर्णच्छटाभिर्निर्वाप्य प्रभो प्राप्तसमुन्नतिः ।। ८४ ।। परित्यज्य पटप्रान्तविश्रान्तमिव कण्टकम् । निष्कण्टकमपि प्राज्यराज्यं त्वं संयमे स्थितः ।। ८५ ।। प्रशान्तविग्रहस्यापि स्तुवे चरणचातुरीम् । तव प्रबलकर्मारिवारदारणदारुणाम् ।।८६ ।। उता केवल श्री मुदिता भुवनत्रयी । उपदेशामृतैर्वृष्टं नष्टं दुर्वासनाविषैः ।। ८७ ।। इत्थमाश्वास्य विश्वानि देशनामृतवीचिभिः । प्रतिष्ठ पृथ्वीसम्भूत ! प्राप्तस्त्वं परमं पदम् ।।८८ ।। मूर्त्तिः स्फूर्त्तिमती देव ! देवदानवमानवैः । सेव्यते सेयमद्यापि भुक्तिमुक्तिप्रदा तव ।।८९ ।। प्रभावभवने देव ! केवलालोकभास्वति । नन्दतु त्वयि लीनं मे मनस्त्रिभुवनप्रभोः " ।। ९० ।। स्तुत्वैवं विरते तस्मिन् मुनौ विनयवामनः । सोमदत्तः पदाम्भोजं प्रणनामास्य भक्तितः ।। ९९ ।। मौलौ च मुकुलीकुर्वन् पाणी प्रणतवत्सलम् । मुनिमागमने हेतुं पप्रच्छ स्वच्छमानसः ।। ९२ ।। शशंस मुनिरप्यत्र सुमेरोरनुकारिणि । स्तूपे जिनेन्द्रबिम्बानां प्रणामायाहमागमम् ।। ९३ ।। सकौतुकं सोपरोधं विनीतः सागरात्मजः । अन्वयुङ्ग मुनेः स्तूपमूलोत्पत्तिकथामथ ।। ९४ ।। एतदाकर्णनादस्य जैने धर्मे दृढं मनः । भविष्यतीति सोऽप्यूचे शृणु वत्स यदीच्छसि । । ९५ ।। अस्यामेवावसर्पिण्यां जिनेषु ऋषभादिषु । पद्मप्रभावसानेषु प्राप्तेषु परमं पदम् ।। ९६ ।। प्रतिष्ठनृपतेः पुत्रः सप्तमस्तीर्थनायकः । श्रीसुपार्श्वोऽभवत् सौम्य ! यस्येयं प्रतिमा पुरः ।। ९७ ।। प्रवत्र्त्य धर्म्मतीर्थं स्वमस्मिन्नपि कृपार्णवे । सदानन्दं पदं प्राप्ते तत्सन्ताने बभूवतुः । । ९८ ।। ताप-चिन्ता-सन्तापः । दुनोति दवनमिति, दूयते ऽनेनेति वा भावे करणे चाथुच् ।
2. दवथुः
- ५/३/८३ सि. हे. ।।
८८
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org