________________
हितोपदेशः । गाथा-६८, ६९, ७० - अनुकम्पादानस्य स्वरूपम् ।।
दुःखार्त्तसत्त्वेषु असातोद्वेजितजन्तुषु ।।६७।। दुःखार्त्तसत्त्वभेदानाह -
दीणाणमणाहाण य बंधवरहियाण वाहिविहुराण । चारयपडियाण विएसियाण वसणावलीढाणं ॥६८।। अंधाण य पंगूण य कुणीण खुजाण वामणाणं च । बालाण य वुड्डाण य छुहियाण पिवासियाणं च ।।६९।। एवंविहाण पाणीण दिति करुणामहनवा जमिह ।
तं अणुकंपादाणं भन्नइ सन्नाणसालीहिं ।।७०।। सज्ज्ञानशालिभिर्वरज्ञानोद्भासमानस्तीर्थकृत्प्रभृतिभिस्तदनुकम्पादानं भण्यते । तत् किम्? यद् ददति वितरन्ति । के? करुणामहार्णवाः कृपाऽकूपाराः । केषां? प्राणिनाम् । किंविशिष्टानाम्? एवंविधानाम् प्रोच्यमानस्वरूपाणाम् । तानेवाह - दीनानां धनरहितानां तथाऽनाथानां पतिविरहितानां, बान्धवरहितानां ज्ञातिवर्गवियुक्तानां, व्याधिविधुराणां काशश्वासज्वरातीसारादिरोगग्लपितानां, चारकपतितानां गुप्तिगृहवासितानाम्, वैदेशिकानां भ्रष्ट पन्थश्रमितानां, व्यसनावलीढानां राजकृतोपद्रवप्रभृतिभिर्व्यसननिपतितानां, अन्धानां सन्नदृशां, पङ्गुनां अपदानां, कुणीनां करविरहितानां, कुब्जानां आसेवितवाप(?) [एकपार्श्वहीनलक्षणानां] वामनानांखर्वशाखानां, बालानां शिशूनां, वृद्धानांजरता, क्षुधितानां बुभुक्षाक्षामकुक्षीणां, पिपासितानां जलपानविरहितानां दाहशोषाकुलानां इत्यर्थः, एवंविधा भिक्षुकाः अन्ये अप्राप्तशर्माणः अन्तरायदानान्तरायकर्मोदया[द]परैः पीडिताः क्षुधार्ताः स्वकर्मनिरताः स्वाधीनकृतानिश्चयाः [अस्वाधीनकृतनिश्चयाः] परपुरुषार्थापरानभिलषिति[षन्ति । एवं च स्वाधीनधनानां साक्षात्कृतदुःखातिदेहिनामपि पुंसां यदि चित्ते मनसि अनुकम्पा कृपा न भवेत्तदा भव्यत्वे मुक्तिगमनयोग्यत्वे भ्रान्तिरिव भ्रम इव, अभव्यप्राणिनामेव प्रायस्तथाकर्कशत्वसम्भवात् ।।६८ ।।६९।।७० ।।
गाथा-७० 1. परः - श्रेष्ठः पुरुषार्थः येषां ते परपुरुषार्थाः, श्रेष्ठपराक्रमिण इत्यर्थः । अथवा परेषु हेत्वर्थे सप्तमी, परेभ्यः पुरुषार्थः येषां ते इति परपुरुषार्थाः परोपकारिण इत्यर्थः, ततः कर्मधारयः ।। 2. मूलग्रन्थप्रतिषु अतः परमेका गाथा अधिका अस्ति सा सटीकप्रत्योः नास्ति । तद्यथा -
संते वि चित्तवित्ते दिढे सत्ते वि तिक्खदुक्खत्ते । अणुकंपा जइ चित्ते न हुज भंति व्व भव्यत्ते ।।७१।। अत: परं 'भाविजइ०' इति गाथा-७२ इति क्रमाङ्केन दर्शिता अस्ति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org