SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - ६५, ६६ - जीवदयाया माहात्म्यम् ।। किल चिन्तारत्नकामधेनुकल्पद्रुमाणामेकोऽपि प्रार्थितः समर्थः समग्रप्रणयिमनोरथसार्थं पूरयितुं किं पुनः समुदिताः ? परमेवं स्थूललक्षा अपि कल्पवृक्षादयः समुदिताश्च युगपत् सर्वोघे दानोमुखा अपि तद् वितरीतुं न प्रभवन्ति, यदेकैवासहाया जीवदया सम्यक् त्रिकरणशुद्धया सेविता ददाति । इयमत्र भावना - किल चिन्तामण्यादयो हि सर्वात्मना सन्तुष्टा अप प्राणिनामैहिकसुखमात्रसङ्घटन एव पटिष्ठाः, अहिंसाधर्मस्तु परम्परया परमदुष्प्रापपरमपदमपि प्रदातुमलम्भूष्णुरतः कथमेतेन तुला पूर्वेषामिति ।।६४।। ७२ दयाधर्म्मदृढव्रतानेवोपस्तौति धन्ना गहिऊण इमं, गुरुमूले मलकलंकपरिमुक्कं । पालंति पाउणति य, फलममलमिमीइ अचिरेण । । ६५ ।। धन्याः सुकृतिनो गृहीत्वा प्रतिपद्य इमां प्राणिदयां गुरुमूले गीतार्थगुरुजनोपान्ते न स्वमनीषिकया । एतावता सत्कर्मापि गुर्वाज्ञयैव विधेयमिति दर्शयति, प्रतिपद्य च पालयन्ति निर्वाहयन्ति । किम्भूतम् ? 'मलकलङ्कपरिमुक्तां' अतीचाररजोभिरदूषिताम् । अथ किमस्याः पालनेन? इत्याह-‘पाउणंति' प्राप्नुवन्ति । किं तत्फलम् ? स्वर्गापवर्गलक्षणम् । किंविशिष्टम् ? अमलम् अवदातमितर-गत्यपेक्षया, कथम् ? अचिरेण भवाष्टकाभ्यन्तर इत्यर्थः । । ६५ ।। अथ दृष्टान्तमाह - - जह तेण पुलिंदेणं, मुणिवयणसमिद्धसुद्धसद्धेणं । पडिवन्ना जीवदया, बीयभवे फलवई जाया । । ६६ ।। 'यथा' इति दृष्टान्तोपन्यासे । यथा तेन कथानकोद्दिष्टेन पुलिन्देन शबरेण मुनिवचनसमिद्धशुद्धश्रद्धेन साधूपदेशद्विगुणितसद्वासनेन, प्रतिपन्ना अङ्गीकृता जीवदया प्राणिरक्षा द्वितीयस्मिन्नेव भवे फलवती जाता इति । सम्प्रदायगम्यं च पुलिन्दसंविधानम् । तच्चेदम् - ।। जीवदयामाहात्म्योपरि नरकेसरिनरपतिकथानकम् ।। जलरासिनिवसणाए वेलावणविउलमेहलगुणाए । वेयड्डनियंबाए कालिंदीवेणिदंडाए ||१|| सुरसिंधुसिंधुघोलिर - हारावलिललियमज्झदेसाए । सिरिभरहवासवसुहा - विलासिणीए तिलयभूयं ॥ २ ॥ सुविभत्ततिपचचर - चउक्कवररायमग्गसोहिल्लं । अत्थि पसत्थपयत्थं कुसत्थलं नाम वरनयरं । । ३ । । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy