SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ५२२ वायुवेगेन तत्रागात् ततो नारीजनोऽखिलः । त्रस्तो नंष्टुमशक्तश्चारोदीदशरणाश्रयः ॥४२॥ महापद्मोऽपि तद् दृष्ट्वा कृपाकुलमना गजम् । चिकीर्षन्नबलात्राणं प्रत्यधावदहक्कयत् ॥४३॥ वलितोऽभ्यागमद् वेगात् कुमारं कुञ्जरोऽपि हि । स दत्त्वा करिणो वेध्यमिममक्रीडयच्चिरम् ॥४४॥ भाग्यवान् पुरुषः कश्चिदस्मदर्थमसौ हहा ! । कदर्थ्यः करिणा पौरीजनः पूदकरोदिति ॥ ४५ ॥ एतदाकर्ण्य तत्रत्यो महसेनः क्षितीश्वरः । समन्त्रि-नागरोऽभ्यागादवादीच्च सुविस्मितः ॥४६॥ मा मा कुमार ! ढौकस्व प्रतीभं मुग्धतां त्यज । कृतान्तस्य प्रतिकृतिरसौ हि त्वदगोचरः ॥४७॥ गजमेनं वशीकर्तुं मन्ये शक्रोऽपि न क्षमः । कदलीकोमलाङ्गस्य कुमार ! तव का कथा ? ॥४८॥ भटाः सहस्रयोद्धारो जगज्जयिपराक्रमाः । ममानेके परं नागं नैनं निर्जेतुमीश्वराः ॥ ४९ ॥ पथिकोऽसि पतङ्गत्वं मा भजैतत्प्रदीपके । तत् साहसं न हि श्लाघ्यं यद् विपाकैकदारुणम् ॥५०॥ कुमारोऽवददुर्वीशानभिज्ञो ऽसि स्थिराशयः । निरीक्षस्व क्षणादेव वशं नेयो मया गजः ॥५१॥ इत्युक्त्वा शास्त्रभणितैः करणैः करिणं क्षणम् । सम्मो विद्युदुत्क्षेपं कुमारो द्विपमारुहत् ॥५२॥ अभिकुम्भस्थलं मुष्टिघातैर्नीत्वा वशं गजम् । दत्त्वा हस्तिपकाय द्राक् कुमारोऽस्मादवातरत् ॥५३॥ अद्वैतं साधुवादस्य पौरेभ्यः प्राप सर्वतः । वीरकोटीरहीरत्वं तस्याख्यन् शिशवोऽपि हि ॥५४॥ लिङ्गनिर्णीततद्वंश: सन्तुष्टस्तेन भूपतिः । गुणश्रेणिचणं कन्याशतं स्वीयं व्यवाहयत् ॥५५॥ Jain Education International 2010_02 उत्तरज्झयणाणि - २ For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy