________________
५२१
अष्टादशं संयतीयमध्ययनम्
न नाम यदि दाक्षिण्यं ममाकार्षीद् धराधवः । तदा विष्णुकुमारस्य तत् कृत्यं नाभवत् किमु ? ॥२८॥ जातापमानमालिन्यं तद्धि त्याज्यमिदं पदम् । ध्यात्वेत्यसौ द्वितीयासिनिश्येको निरगाद् गृहात् ॥२९॥ गच्छन् प्रापाटवीमेकां तत्रागात् तापसाश्रमम् । सत्कृतस्तापसैः सर्वैस्तत्र तस्थौ सुखं कियत् ॥३०॥ इतश्च चम्पाधिपतौ क्षितीशे जनमेजये । कालशत्रुपराभूतेऽत्राणः सर्वोऽनशज्जनः ॥३१॥ नागवत्यस्य दयिता गृहीत्वा मदनावलीम् । एकां स्वपुत्रीं नश्यन्ती तत्रागात् तापसाश्रमे ॥३२॥ कुमार-मदनावल्योर्दर्शनादेव चेतसि । तथा रागोऽभवद् व्यक्तिभावं भेजे यथाऽक्षिषु ॥३३॥ नागवत्यप्यदो ज्ञात्वा रह: प्राह निजाङ्गजाम् ।। न हि स्मरसि किं वत्से ! त्वं तन्नैमित्तिकोदितम् ? ॥३४॥ चक्रिणः पट्टपत्नीत्वं प्राप्स्यसेऽतो निजं मनः । कि यत्र कुत्र बध्नासि न कौलीनमिदं हि नः ॥३५॥ अथो कुलपतिः प्रोचे कुमारं शङ्किताशयः । गच्छ क्वचिदनाचारं मा कन्याप्रणयं कृथाः ॥३६॥ कृतो भवति हि स्नेह इत्यज्ञानोचितं वचः । भवितव्यतया लग्नं मनः कोऽपासितुं क्षमः ? ॥३७॥ अस्याः पतित्वमासाद्य वर्ष संसाध्य भारतम् । सर्वत्र प्रथयिष्यामि जैनधर्मप्रभावनाम् ॥३८।। उच्चैर्मनोरथानेवं कुर्वाणः कुमरस्ततः । अचलत् क्रमशः प्राप पत्तनं सिन्धुनन्दनम् ॥३९।। उद्यानिकायामुद्याने क्रीडत्यत्राबलाजने । केलीकलकले गीततूरनादे प्रसर्पति ॥४०॥ महसेनमहीशानमहेभो मदनोत्कटः । तच्छुत्वोन्मूलितालानो हतमेण्ठः सुदुर्दमः ॥४१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org