________________
५२०
उत्तरज्झयणाणि-२ गताः प्रमुदिताः सर्वे स्वस्थानं भूधवादयः ।। समुपात्तमहाकर्मा स त्वगाद् गुरुमत्सरः ॥१४॥ वैरमुद्वहमानोऽसौ रात्रौ तत्र तपस्विनाम् । वधार्थमुदसिर्यातोऽस्तम्भि देवतया रयात् ॥१५।। धर्ममत्सरदौरात्म्यमीहग वीक्ष्य नपादयः । श्रुतधर्माः परं भेजुर्धर्मदाढ्यं सुविस्मिताः ॥१६।। अपमानं जनादाप्य निर्गत्य नमुचिस्ततः । युवराजं गजपुरे महापद्ममुपास्थितः ॥१७॥ सुधीः सूक्तज्ञ इत्येनं बह्वमंसीन्नपात्मजः । उपायज्ञं न मुञ्चन्ति मन्त्रिणं हि महीधवाः ॥१८॥ दुर्गेश्वरं सिंहबलं दुर्जयं जेतुमन्यदा । स्वाम्यादेशात् ससैन्योऽसौ गत्वोपायैस्तमग्रहीत् ।।१९।। महापद्मस्य पुरतस्तं जीवन्तमढौकयत् । गुणज्ञः सोऽपि सत्कृत्य तं प्रसादपरोऽवदत् ॥२०॥ त्वया न्यवारि देशस्योपद्रवो दुर्जयादरेः । अतो वृणु वरं किञ्चिदिष्टमस्मि प्रसादवान् ॥२१॥ मार्गयिष्माम्यवसरे तदा दद्याः प्रसद्य तम् । प्रपेदे तत् कुमारोऽपि स्थिरात्माऽऽश्रितवत्सलः ॥२२॥ इतश्च ज्वालया देव्या स्वर्ण-मुक्ता-मणीमयः । स्यन्दनः कारयामासे जिनयात्रार्थमद्भुतः ॥२३।। मिथ्यादृष्टिः परा राज्ञी लक्ष्मीत्याख्याऽप्यकारयत् । सपत्नीस्पर्द्धया ब्रह्मरथं ब्राह्मणशिक्षया ॥२४॥ पुरे ब्रह्मशताङ्गस्य प्राग् भ्रमोऽस्त्विति भूधवम् । लक्ष्मी~जिज्ञपत् तच्च ज्वालाऽश्रौषीत् सुदुःश्रवम् ॥२५॥ प्रत्यज्ञासीच्च चेज्जैनरथो न भ्रमिता पुरा । जन्मन्यस्मिस्तदाऽऽहारो नैव ग्राह्यो ध्रुवं मया ॥२६॥ ततोऽनन्यगति पो न्यरौत्सीत् तद् रथद्वयम् । तादृग्विमानतां मातुर्दृष्ट्वा पद्मो व्यचिन्तयत् ॥२७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org |