________________
५१८
उत्तरज्झयणाणि-२ व्याख्या-इक्ष्वाकुराजवृषभः । कुन्थुर्नामा नराणां मर्त्यानां मध्ये ईश्वर इव नरेश्वरः। पुनर्विख्यातकीतिर्भगवान् प्राप्तो गतिमनुत्तराम् । स्पष्टम् । एष च षष्ठश्चक्री सप्दशश्च जिन इति । तद्वत्तोद्देशो यथा
हस्तिनागपुरे सूरभूपालस्य प्रतापिनः । श्रीदेव्या भगवान् पुत्रः कुन्थुनाथोऽभवनज्जिनः ॥१॥ प्रवयाः पैतृकं राज्यं प्राप्य संसाध्य चौजसा । षट्खण्डभरतेशत्वं स प्रौढश्चक्रवर्त्यभूत् ।।२।। समये व्रतमादाय षोडशाब्दी विहृत्य च ।। उत्पाद्य केवलज्ञानं भव्यान् भवमतारयत् ॥३॥ कौमार-राज्य-चक्रित्व-व्रतेषु शरदा क्रमात् । त्रिविंशतिः सहस्राणि सार्धसप्तशतानि च ॥४॥ प्रत्येकमतिवाह्योच्चैः कर्म निर्मूल्य सर्वतः । सम्मेते सिद्धिमासाद्य शाश्वतानन्दभागभूत् ॥५॥ यत्रावतीर्णे ह्यतिलाघवेन कुन्थूपमान् श्री: प्रददर्श शत्रून् ।
बाह्यान्तरङ्गारिगणप्रमाथी स कुन्थुनाथः कुशलं करोतु ॥६॥ इति कुन्थुचरित्रम् ॥३९॥
सागरंतं चइत्ताणं भरहं नरवरीसरो ।
अरो य अश्यं पत्तो पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-सागरान्तं समुद्रान्तं [त्यक्त्वा] भरतं भरतक्षेत्रं नरवराणामीश्वरः । अरनामा च तीर्थकृच्चक्रवर्ती रतस्य रजसो वा अभावोऽरतं अरजो वा तत्प्राप्तः सन् प्राप्तो गतो गतिमनुत्तरां मुक्तिमित्यर्थः । तच्चरित्रसङ्ग्रहवृत्तमिदम्
अभूद् गजपुरे पुरे जिनवरोऽर इत्याख्यया, सुदर्शनकुलार्यमा जगदुदारदेव्यात्मजः । चतुर्ध्वपि समैकविंशतिसहस्रमभयेत्य यो,
महोदयमशिश्रयद् विदितचक्रिराट् सप्तमः ॥१॥ इति अरजिनचरित्रम् ॥४०॥
चइत्ता भारहं वासं चक्कवट्टी महिड्डिओ । चइत्ता उत्तमे भोगे महापउमो तवं चरे ॥४१॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org