SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५१४ उत्तरज्झयणाणि-२ बलदेव-वासुदेवौ भारतार्धक्षितीश्चरौ । क्रमादभूतां नि:शेषक्ष्माभृच्चक्रावतंसकौ ॥८०॥ तत्पिताऽपि परिव्रज्यासुरेषु चमरोऽभवत् । अगादनन्तवीर्योऽपि बद्धायुः प्रथमां भुवम् ॥८१॥ द्विचत्वारिंशत्सहस्राब्दस्थितिस्तीव्रोरुवेदनाः । सम्यक् सेहे स संविग्नः क्व मुक्तिः कृतकर्मणः ? ॥८२।। तत्पिता चमरेन्द्रस्तं नरकादुद्दिधीर्षया । आचकर्ष परं सोऽपि नाक्रष्टुमशकत्तमाम् ।।८३।। अथापराजितो दीक्षामुपादाय विरक्तधीः । क्रमादापाच्युतेन्द्रत्वं द्वाविंशत्यतरायुषा ॥८४॥ इतश्चानन्तवीर्योऽपि निर्गत्य नरकोदरात् । खेचरोऽजनि वैताढ्येऽच्युतेन्द्रेणैष बोधितः ॥८५।। प्रव्रज्याच्युतदेवोऽभून्मद्धिर्दिव्यदीधितिः । इन्द्रस्य परमप्रीतिपात्रमुत्कर्षितस्थितिः ॥८६।। अच्युतेन्द्रः क्रमादायुरुपभुज्य च्युतस्ततः । विजये मङ्गलावत्यां रत्नसञ्चयपत्तने ॥८७॥ क्षेमङ्करस्य भूजाने रत्नमालाऽङ्गभूरभूत् । वज्रायुधाभिधः पुत्रः पवित्रगुणसेवधिः ॥८८|| अपरस्तु ततस्तस्य पुत्रत्वेनोदपद्यत । सहस्त्रायुध इत्याख्यः पितृभक्तो महाभुजः ॥८९।। वज्रायुधं नृपीकृत्य लात्वा क्षेमकरो व्रतम् ।। तीर्थकृत् केवली भूत्वा भव्यान् भवमतारयत् ॥९०॥ अन्यदा पौषधागारे पौषधव्रतसुस्थिरम् । प्रशशंसाद्यकल्पेन्द्रो वज्रायुधमिति स्फुटम् ॥११॥ चलेदपि क्वचिन्मेरुः परं सेन्द्रः सुरैरपि । धर्माच्चालयितुं शक्यो न तु वज्रायुधो बली ॥९२।। तदश्रद्दधदेकस्तु देवो भुवमवातरत् । पारापतेन रूपेण वज्रायुधमुपागमत् ॥१३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy