________________
५१२
उत्तरज्झयणाणि-२ निविण्णा कामभोगेभ्यो जिघृक्षुव्रतमादृता । अपृच्छत् कपिलं नानुमेने स तु कथञ्चन ॥५२॥ ततस्तत्रत्यभूपालं श्रीषेणं सा व्यजिज्ञपत् । कपिलान्मोचय स्वामिन् ! येन द्राग् व्रतमाददे ॥५३॥ येन दुष्कर्मणा क्षिप्ता नीचसङ्गतिसङ्कटे। तत्कर्मशत्रुहनने नान्यदौपयिकं व्रतात् ॥५४॥ भृशमुक्तः स राज्ञाऽपि तां नामुञ्चत् ततो नृपः । तामाह तिष्ठ तावत् त्वं यावत् तं प्रशमं नये ॥५५।। इतश्च नृपतिः पुत्रावेकपण्याङ्गनाकृते । शत्रुवद् विनियुध्यन्तौ प्रश्रयादित्यशिक्षयत् ।।५६।। "सत्स्वपाङ्क्तिकता मानहानिातिष्वनादरः । मालिन्यमात्मनश्चेति दोषाः पण्याङ्गनागमे ॥५७॥ कुलीनक्षितिभृत्कन्याभोगौदासीन्यतो रतिः । वेश्यास्वनेकभुक्तासु किं युक्ता नृपजन्मनाम् ? ॥५८॥ चित्रं तत्रापि यद् भ्रात्रोः कलहस्तत्कृतेऽपि हि । स चन्द्रे श्यामिकाप्रायः कश्चिदुत्पातहेतवे ॥५९॥ राज्यार्थे यदसाङ्गत्यं पुत्रयोस्तदपि ध्रुवम् । पितुः क्लेशाय तुच्छेकवेश्याऽर्थे तु किमुच्यते ? ॥६०॥ एतत् पितृवचः श्रुत्वा गवाज्यप्रायमद्भुतम् । इद्धक्रोधानलौ क्षमापमाहतुस्तौ निरर्गलौ ॥६१।। तात ! वृद्धोऽसि का वेश्या का वा राजाङ्गजा जने ? । प्रीतिरेव हि संसारे निदानं परमादरे ॥६२॥ अन्धे कुष्ठिनि पङ्गो वा नृपेऽपि नृपजेऽपि वा । समव्यापारवद् वेश्यासमं पात्रं न विद्यते ॥६३॥ द्वयोरन्यतरो भ्राता न हि यावद् विपत्स्यते । तावत् कुतः कलिः क्षीणो यद् भाव्यं तात ! पश्य तत्" ॥६४।। इत्यपायप्रवृत्ताङ्गजन्मदुर्वाक्यजन्मना । वैराग्येण शुभध्यानाद् विषभक्षी मृतो नृपः ॥६५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org