SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५११ अष्टादशं संयतीयमध्ययनम् ते शान्तवैराः सर्वेऽपि शुश्रुवुर्धर्ममार्हतम् । सुतारैकेन तत्रेवानिन्ये विद्याभृतां क्षणात् ।।३८।। अथोचेऽशनिघोषेण न दुर्भावान्मया हृता । सुताराऽपि तु दृष्टवानामभवं त्यक्तमक्षमः ॥३९॥ पूर्वस्नेहवशाद् वैतालिनी व्यतिकरेण तत् । मोहयित्वा नृपं हृत्वैनामगां क्षम्यमित्यदः ॥४०॥ आकर्ष्यामिततेजास्तदपृच्छज्जिननायकम् । कुतः स्नेहः सुतारायामस्येत्यर्हन्नपीत्यवक् ॥४१।। भरते मगधादेशेऽचलग्रामे द्विजन्मनः । कस्यापि कपिला चेटी तत्पुत्रः कपिलोऽभवत् ॥४२॥ कर्णश्रुत्यैव चतुरः स वेदांश्चतुरोऽपठत् । जनुर्दोषात् तु तत्रैनं नाध्यापयति कश्चन ॥४३।। अतो देशान्तरे रत्नपुरेऽध्यापकमाश्रितः । प्रख्याप्य स्वं द्विजसुतं स्मृत्याद्यध्ययनेच्छया ॥४॥ तत्प्रज्ञापरितोषेणाध्यापको निजनन्दिनीम् । कपिलेन गुणस्तुत्यां सत्यभामां व्यवाहयत् ॥४५॥ अन्यदा प्रावृषि श्यामाप्रदोषे वर्षदम्बुदे । अन्तःकक्षं स वस्त्राणि संगोप्य गृहमाययौ ॥४६॥ तीमितांशुक इत्यन्यान्युपादायोपतस्थुषीम् । वस्त्राणि प्रोचिवान् कान्तां तिमिरेऽसौ निरंशकः ॥४७।। अस्ति विद्याप्रभावो मे जलं न क्रमतेंऽशुके । सा तु दक्षा विवेदास्य नाग्न्यं वैद्युततेजसा ॥४८।। अकौलीन्यमिदमिति मन्दस्नेहा क्रमादभूत् । सत्त्वभाजां नृणां स्त्रीणां नाकुलीने मनोरतिः ॥४९॥ तेन यद्विजपुत्रत्वमूचे सोऽपि द्विजोऽन्यदा । तत्रागात् सत्यभामां तं रहसीदमभाषत ॥५०॥ त्वत्पुत्रोऽयं यदि तदा पृथक् पङ्क्तिः कृता कथम् ? । सोऽप्यैदम्पर्यमाचष्ट मदास्यास्तनुभूरिति ॥५१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy