SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयमध्ययनम् तथा च मयि मा कुप्यो न द्वेषः कश्चिदस्ति मे । निमित्तं यदुपालम्भि सद्भावात् तत् पटूकृतम् ॥१०॥ यतन्ते प्रतिकाराय विज्ञायैष्यदुपद्रवम् । न तु रुष्यन्ति धीमन्तः कथकायोपकारिणे ॥ ११ ॥ संवादपेशलोक्तस्य सत्कारो मे न दुर्लभः । शान्तोऽथ सचिवः प्राह निमित्तज्ञः कुतो भवान् ? ॥१२॥ सोऽवादीत् सह तातेन पुरा प्रव्रजितोऽभवम् । अचलस्वामिनो दीक्षाकाले परमसम्मदात् ॥१३॥ स्थविरैः शिक्षितः शिक्षां पाठितश्च श्रुतं बहु | तत्राष्टाङ्गं मया ज्ञातं निमित्तं श्रुतसागरात् ॥ १४॥ ततोऽस्मि वृतकन्याया उत्प्रव्राज्य सहोदरैः । विवाहितो बलात् कर्म यतो बलवदात्मनि ॥ १५ ॥ इत्युक्त्वाऽस्मिन्नुपरते एकेनाख्यायि मन्त्रिणा । तिष्ठत्वब्धौ नृपः पोते विद्युत् तत्र पतेन्न यत् ॥१६॥ न सम्मतं तदन्येषां यतः कर्म पुरातनम् । प्रभवत्येव वार्द्धा वा गिरौ वाऽप्यविशेषतः ॥ १७॥ मन्त्री सन्मतिरित्याख्यत् पोतनाधिपतेर्वधः । न तु श्रीविजयस्यास्य नैमित्तेन प्रवेदितः ॥१८॥ तत् पोतनप्रभुत्वेन कल्प्यः सप्तदिनी परः । अथास्थाप्यैकमत्येन यक्षः कोऽपि नृपासने ||१९|| सप्तमाहेऽथ मध्याह्ने विद्युदभ्युन्नता ध्वनात् । निपत्य यक्षमदहन्नान्यथा ज्ञानिनो वचः ॥२०॥ अहं पौषधशालायां सप्तरात्रोषितो गृहम् । उत्सवैगतो राज्येऽभिषिक्तो नागरैः पुनः ॥२१॥ नैमित्तः पूजितः सर्वैस्तदिदं क्षणकारणम् । अश्लाघि मन्त्रिप्रागल्भ्यं श्रुत्वेत्यमिततेजसा ॥ २२॥ मिलित्वा स्वसुरात्मीयगृहगेऽमिततेजसि । सुतारयाऽन्यदोद्यानं युक्तः श्रीविजयो ययौ ॥२३॥ Jain Education International 2010_02 For Private & Personal Use Only ५०९ www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy