________________
५०८
च्युतस्तस्माद् विदेहेऽवतीर्य सेत्स्यति दीक्षया । सनत्कुमारवत् तस्मात् यतध्वं स्वार्थसिद्धये ॥१६०||
इति सनत्कुमारचरित्रम् ॥३७॥
तथा
चइत्ता भारहं वासं चक्कवट्टी महडिओ | संती संतिकरो लोए पत्तो गड़मणुत्तरं ॥३८॥
व्याख्या–त्यक्त्वा भारतं वर्षं चक्रवत्तिर्महद्धिको महद्धियुक्तः शान्तिः शान्तिकरो लोके मनुष्यलोके प्राप्तो गतिमनुत्तरां सर्वोत्कृष्टां मोक्षलक्षणामिति सुगमम् । अयं पञ्चमश्चक्री षोडशश्च तीर्थकृत् । ततश्च—
शिवसम्पत्तिकृन्नाम्नः संविग्नानन्दसाधनम् । चरितं शान्तिनाथस्य स्वामिनः किञ्चिदुच्यते ॥१॥ वैताढ्येऽस्त्युत्तरश्रेण्यां पुरं श्रीरथनूपुरम् । तस्मिन्नमिततेजाः क्ष्मापतिर्विततविक्रमः ॥२॥
सोऽन्यदा सम्मदी स्वीयसुताराभगिनीपतेः । ययौ श्रीविजयाख्यस्य पार्श्वे पोतनपत्तनम् ॥३॥ तदोच्छ्रितध्वजं जायमाननानामहोत्सवम् । पुरं राजकुलं वीक्ष्यापृच्छत् प्रियतमं स्वसुः ॥४॥ राजन् ! विशेषमहसि किं निदानं विभाव्यते ? | ततः श्रीविजयो भूपस्तद्वक्तुमुपचक्रमे ||५|| इतोऽष्टमे दिने नैमित्तिकः कोऽपि महामतिः । उपतस्थे सभास्थं मामाचचक्षे च सत्कृतः ||६|| मया निमित्ततो ज्ञातमितः सप्तमके दिने । पोतनाधिपतेः शीर्षे विद्युद्वह्निः पतिष्यति ॥७॥ अदः कटुवचः श्रुत्वा रुष्टेनाभाणि मन्त्रिणा । रे ! तिष्ठ वावदूकस्य पतिता किं तवोपरि ? ॥८॥ तेनोचे शृणु भो मन्त्रिन् ! स्वर्णवृष्टिर्भविष्यति । ममोपरि तदा जाते तद्वृत्ते च यथास्थिते ॥९॥
Jain Education International 2010_02
उत्तरज्झयणाणि - २
For Private & Personal Use Only
www.jainelibrary.org