________________
५०६
उत्तरज्झयणाणि-२ चक्री प्राह कथं वित्थो युवां तावप्यथोचतुः । राजन्नाकर्ण्यतां तत्त्वमद्याद्यदिवि वासवे ॥१३२॥ प्रेक्षमाणे सुधर्मायां सभायां दिव्यनाटकम् । सङ्गमाख्यः सुरः कश्चिदागादीशानतः पुरः ॥१३३।। शक्रेण सत्कृतस्यास्य दिव्यप्रसृमरत्विषा । निष्प्रभाऽऽसीत् सभा शाक्री भानीवादित्यतेजसा ।।१३४।। शक्रोऽथ विस्मितैर्देवैः पृष्टो भाऽऽधिक्यकारणम् । आचचक्षेऽमुनाऽऽचाम्लवर्धमानं तपः कृतम् ॥१३५॥ प्राग्भवे तन्महात्माऽसौ सर्वादित्याधिकप्रभः । अन्यः कोऽपीदृशोऽस्तीति तत्प्रश्नेऽवक् सुरेश्वरः ॥१३६।। कान्ति-सौभाग्य-लावण्यैर्वैश्वविश्वातिशायिनः । सनत्कुमाररूपस्य नायमप्युपमास्पदम् ॥१३७॥ एतदश्रद्धयैवावामायातौ त्वरितं सुरौ । शक्रोक्ताधिकमालोकि रूपं वः प्राचि दर्शने ॥१३८|| साम्प्रतं ध्वस्तमेवेदमुद्भवव्याधिबाधितम् । ज्ञास्यसि स्वयमेवेदमित्याख्याय गतौ सुरौ ॥१३९।। हार-केयूरसम्बन्धमपि वक्षो-भुजादिकम् । नृपो निरीक्ष्य विच्छायं प्रत्ययादित्यचिन्तयत् ॥१४०॥ "अहो ! क्षणिकताऽऽघ्रातं बहिरङ्गमदोऽखिलम् । प्रतिबन्धस्तु तत्रापि यत् तन्मौढ्यवृिम्भितम् ॥१४१॥ वपुर्मोहोऽयमज्ञानमज्ञानं रूपगर्विता । अज्ञानं विषयासक्तिरज्ञानं ही ! परिग्रहः ॥१४२॥ कर्तुमात्महितं किञ्चिन्ममोचितमथेत्यसौ । पट्टेऽभिषिच्य स्वं पुत्रं व्रतं तत्कालमाददे" ॥१४३॥ रत्नानि निधयो देवा नरेन्द्राः पत्तयोऽङ्गनाः । तस्यैवानु भ्रमन्ति स्म षण्मासान् प्रेमलालसाः ॥१४४॥ सिंहावलोकितेनापि तानसौ न व्यलोकयत् । अहो ! निरभिषङ्गत्वं वायोरिव महामुनेः ॥१४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org