________________
५०५
अष्टादशं संयतीयमध्ययनम्
समर्प्य प्राभृतं स्फीतं दत्त्वा च्छत्रादि चाद्भुतम् । ऐन्द्रप्रणयमावेद्य दिवि वैश्रमणो ययौ ॥११८।। उत्तंसीकृतजैनाज्ञमनन्यसमतैजसम् । भोगाभोगमनोहारि चक्री राज्यमपालयत् ॥११९।। श्लाघामद्वैतरूपस्य चक्रिणः शक्रनिर्मिताम् । श्रुत्वाऽऽगतौ परीक्षायै द्वौ देवौ तत्पुरेऽन्यदा ॥१२०।। विजयो वैजयन्तश्च विदेशीयद्विजाकृती । नृपस्नानक्षणेऽभ्येत्य तौ सौधद्वारि तस्थतुः ॥१२१।। राजाज्ञयाऽन्तरायातौ खल-तैलतिरोहितम् । अपि तद्रूपमालोक्य विस्मितौ भुवनातिगम् ॥१२२॥ लिङ्गावगतचित्रौ तावपृच्छत् कौ युवामिति ? । नृपस्तावाहतुः स्वामिन् ! आवां वैदेशिकद्विजौ ॥१२३॥ अतिविश्वमनोहारिभवद्रूपदिदृक्षया । प्राप्ताविति नृपः श्रुत्वा प्राहेषदवलेपवान् ॥१२४|| किमिदानीमिदं दृष्टमव्यक्तमनलङ्कृतम् ? । स्थितस्य दृश्यमास्थाने भुक्तस्य मम तत् पुनः ॥१२५।। तदभ्युपेत्य तौ यातावथ भुक्तोत्तरं नृपः । पूरयित्वा सभां सर्वशोभया स्वासनेऽविशत् ॥१२६॥ तदा तौ तद्वपुश्चेष्टां निभाल्यान्योऽन्यमाहतुः । वयो-लावण्य-रूपाणि क्षणिकान्येव धिग् नृणाम् ॥१२७।। विस्मयाच्चक्रिणा पृष्टौ सविषादाववोचतुः । अश्रद्धेयमिदं राजंस्तथापि शृणु कौतुकम् ॥१२८॥ रूप-यौवन-तेजांसि देवानां जन्मतोऽपि हि। अवस्थितानि यावत् षण्मासायुरवशिष्यते ॥१२९॥ नृणां तानि तु वर्धन्ते यावन्मध्यं निजायुषः । ततः परं तु हीयन्ते यावदायुः प्रपूर्यते ॥१३०॥ त्वद्रूप-यौवन-श्रीणामिदमाश्चर्यमद्भुतम् । यत् क्षणात् खलमैत्रीवाधुनैवैता गताः क्वचित् ॥१३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org