________________
५००
उत्तरज्झयणाणि-२ प्रविश्य भवनं भूमिमारुरोह च सप्तमीम् । तत्रैक्षामास पद्माक्षीमेकां विरहपीडिताम् ॥४८॥ सनत्कुमार ! मे भूया भर्ताऽन्यत्रापि जन्मनि । पुनः पुनर्भणित्वेदं रुदन्ती तामुवाच सः ॥४९॥ बाले ! सनत्कुमारस्य काऽसि त्वमधितद् यतः । एवं स्निह्यसि साऽप्याह किञ्चिद्विपरिदेवना ॥५०॥ सुरप्रभस्य साकेतनायकस्य सुताऽस्म्यहम् । सुनन्दाऽऽख्या प्रियाऽत्यन्तं प्रसूश्चन्द्रयशास्तु मे ॥५१॥ दूतानीतोपमातीतचित्रतद्रपमोहिता ।। तस्यैव दयितात्वेन जनकेनास्मि कल्पिता ॥५२॥ तद्विवाहकृतोत्कण्ठाऽकस्माद् गगनचारिणा । हृत्वा केनापि मुक्ताऽत्र नवे वेश्मनि रोदिमि ॥५३।। स च क्वापि जगामेति जल्पन्त्यामेव खेचरः । नन्दनोऽशनिवेगस्य वज्रवेगः स आगमत् ॥५४॥ सङ्कथां सह मत्पन्या कुर्वाणोऽसीति निर्भरम् । कोपेन व्योम्नि चिक्षेप कुमारं माररूपिणम् ॥५५।। कुमारोऽपि निहत्यैनं मुष्टिना दुष्टखेचरम् ।। उपकन्यं द्रुतं प्राप निःशल्या मुमुदे च सा ॥५६।। गन्धर्वेण विवाहेन तां पत्नीकृत्य तस्थुषि । कुमारे वज्रवेगस्य नाम्ना सन्ध्यावली स्वसा ॥५७|| उपायाता पुरो वीक्ष्य कुपिता भ्रातरं हतम् । भ्रातृघ्नपतितां स्वस्मिन् स्मृत्वा ज्ञानिनिवेदिताम् ॥५८॥ शान्ता च कुमरं पाणिग्रहणायोपतस्थुषी । सुनन्दाऽनुमतो भूपसुतस्तामप्युदूढवान् ॥५९॥ अथ पुत्रवधात् क्रुद्धोऽशनिवेगो महाबलः । चमूभिः पूरितव्योमा कुमारमभ्यषेणयत् ॥६०॥ चन्द्रवेग-भानुवेगादयो विद्याधराः पुरे । कुमारस्य सहायत्वे ससैन्या उपतस्थिरे ॥६१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org