________________
४९८
रतिवेश्म स्वयं गत्वा प्रसुप्तो व्याजनिद्रया । विद्यया साऽपि विज्ञाय कौमारं चरितं जगौ ॥२०॥
तेनाश्वेन तदा वन्यामार्यपुत्रः प्रवेशितः । श्रान्ते तस्मिन् मृते नीरकृतेऽसौ वनमभ्रमत् ॥२१॥ सुकोमलतनुग्रष्मे दीर्घाध्वातर्षधर्षितः । अनाप्नुवन् जलं सप्तच्छदच्छायां क्षणं श्रितः ॥२२॥ मूर्च्छाविलुप्तचैतन्यस्तत्रास्ते क्षितितल्पगः । तावत् तत्पुण्याकृष्टेन यक्षेणैतद्ध्रुवासिना ॥ २३ ॥ सिक्तो जलेन सर्वाङ्गमयमावृत्तचेतनः । पपौ तदुपनीताम्बु तुष्टश्चैनमथावदत् ||२४|| कस्त्वं कुत इदं नीरमत्यन्तस्वादु शीतलम् ? | स प्राहात्रत्ययक्षोऽहमम्ब्वानीतं च मानसात् ॥२५॥ आचचक्षे कुमारस्तं मां नेहि लघु मानसम् । तत्र चाद्भुतमीक्षित्वा स्नात्वा सन्तोषमादधे ॥ २६ ॥ उक्त्यनन्तरमेवासौ नीतो यक्षेण तत् सरः । मराल-कमलारामरम्यं दृष्टैव पिप्रिये ॥२७॥ स्वैरं मज्जनमाधाय यावत् तटमियाय सः । असिताक्षाभिधो यक्षस्तावत् प्रादुरभूत् पुरः ॥२८॥ व्यसनस्थोऽयमेकाकी कुमार इति दुष्टधीः । प्राग्भवारिः कुमारेण नियोद्धुमुपचक्रमे ॥२९॥ मरुद्भिः क्षुभितो नैष तन्मुक्तैर्गिरिभञ्जनैः । पिशाचैर्दहनाकारैर्न च भीतो मनागपि ॥ ३०॥ अत्रोटयन्नागपाशं तत्कृतं जीर्णरज्जुवत् । तन्मुक्तमुद्गरं मुष्टिघातेन द्रागचूर्णयत् ॥३१॥ अपसार्य गिरिं यक्षमुक्तं दोर्भ्यां च वक्षसः । असौ पराक्रमी बाहुयुद्धेन तमखेदयत् ॥३२॥ देव इत्याप न मृर्ति मृताभासः परं क्षणात् । मुक्त्वा राटिमसौ नष्टः कुमारकरपीडितः ||३३||
Jain Education International 2010_02
For Private & Personal Use Only
उत्तरज्झयणाणि-२
www.jainelibrary.org