________________
४९७
अष्टादशं संयतीयमध्ययनम्
सुताः क्षितिभृतोऽन्येऽपि स्वं स्वमर्वन्तमाश्रिताः । समं वाहयितुं लग्ना जगदाश्चर्यकारिणः ॥६॥ वक्रशिक्षः कुमाराश्वस्तथा पञ्चमधारया । त्वरितं गन्तुमारेभे यथा प्रापददृश्यताम् ॥७॥ ससैन्य: केटके तस्य लग्नः क्षोणीभृदाकुलः । इतः प्रचण्डवातोऽश्वक्रमाध्वानमभञ्जयत् ॥८॥ अथो महेन्द्रसिंहेन तद्वियोगविषयादिना । व्यज्ञपि क्ष्माभृदानेताऽस्मीदानीमेव तं प्रभो ! ॥९॥ निवर्ततां महाराज इत्युक्त्या वलिते नृपे । स साहसी सुहृच्छुध्यै विवेशारण्यमुद्धमन् ॥१०॥ वर्षप्रान्ते क्वचित् सारकासारोपान्तसंस्थितम् ।। तरुणीश्रेणिमध्यस्थं स वीक्षामास भूपजम् ॥११॥ चिरं व्यकल्पयत् क्वायं कुमारस्तरुणीवृतः । विभ्रमः कोऽप्यसौ मेऽस्ति किं वा सत्यमिदं भवेत् ? ॥१२॥ इति दोलायमानेऽस्मिन्नुच्चैरूचेऽथ बन्दिना । विश्वाधार ! कुमाराश्वसेनवंशरवे ! जय ॥१३॥ श्रुत्वेति क्षीणसन्देहः प्राप्तकिञ्चिद्रसान्तरम् । कुमारदृक्पथं गत्वा यावदस्थात् क्षणं सुहृत् ॥१४॥ उपलक्ष्य क्षणादेनमभ्युत्थाय नृपाङ्गभूः । उत्थाप्य पादपतितमालिङ्ग्योपन्यवीविशत् ॥१५।। कृत्वैकान्तमपृच्छच्चानन्दोच्छसितकण्टकः । कथं मित्र ! त्वमेकाकी महारण्यमिदं श्रितः ? ॥१६॥ कथमत्रास्मि विज्ञातो गुरुरम्बा च सौख्यभाक् । आख्यन्महेन्द्रसिंहोऽपि सर्वमस्य यथास्थितम् ॥१७॥ वरविद्याधरस्त्रीभिर्मज्जितो भोजितोऽपि च । कुमार ज्ञातवृत्तान्तमपृच्छत् स्वच्छमानसः ।।१८।। न हि स्वयं निजां ख्यातिं कुर्वते सज्जना इति । निजां बहुलमत्याख्यां तदर्थं त्वादिशत् प्रियाम् ॥१९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org