SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४९६ उत्तरज्झयणाणि-२ इति सगरचरित्रं मोहताणेंकदात्रं, श्रुतिपथमवतार्य स्वादु चित्तेऽवधार्य । किमपि तदिह कृत्यं कृत्यमत्यन्तनुत्यं; शिवसुखपरिरम्भः स्यादतः क्षीणदम्भः ॥११९॥ इति सगरचरित्रम् ॥३५।। चइत्ता भारहं वासं चक्कवट्टी महिड्डिओ। पव्वज्जामब्भुवगओ मघवं नाम महाजसो ॥३६॥ व्याख्या-त्यक्त्वा भारतं क्षेत्रं चक्रवतिर्महद्धिकः प्रव्रज्यामभ्युपगतः प्राप्तः मघवा नामा महायशा इति सुगमम् । तच्चरित्रोद्देशस्तु श्रावस्त्यां पुरि सत्समुद्रविजयक्ष्मापान्वये भानुमान्, श्रीभद्रोदररत्नभूधरमणिः चक्री तृतीयो महान् । साम्राज्यं मघवा विमुच्य विपुलं लात्वोत्तमं संयमं; सोऽपि प्राप सनत्कुमारतविषं ज्ञान-क्रियाऽभ्युद्यतः ॥३६।। सणंकुमारो मणुस्सिदो चक्कवट्टी महिड्डिओ । पुत्तं रज्जे ठवेऊणं सो वि राया तवं चरे ॥३७॥ व्याख्या सन्तकुमारनामा मनुष्येन्द्रो मनुष्येषु इन्द्र इवेन्द्रः चक्रवतिर्महद्धिकः पुत्रं राज्ये स्थापयित्वा सोऽपि राजा तपः चरेदकरोदिति सुगमम् । अथ सनत्कुमारचरित्रम् कुरुजाङ्गलदेशालङ्कारे गजपुरे पुरे । कुरुवंशावतंसः श्रीअश्वसेनोऽभवन्नृपः ॥१॥ सौख्यकामगवी कामं सहदेवीति तत्प्रिया । चतुर्दशमहास्वप्नसूचितस्तत्सुतोऽजनि ॥२॥ सन्तकुमार इत्याख्याश्चक्रित्वोचितभाग्यवान् । बाल्यादपि समभ्यस्तकलस्तारुण्यमाश्रयत् ॥३।। महेन्द्रसिंह इत्यस्य निर्विशेषमनाः सुहृत् । पांशुक्रीडा-कलादाने व्यतिरेकं न योऽभजत् ॥४॥ पुष्पकालेऽन्यदोद्यानं राज्ञि क्रीडार्थमागते । हयं जलधिकल्लोलं कुमारः स्फारमारुहत् ॥५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy