________________
अष्टादशं संयतीयमध्ययनम्
तेनेत्युक्तेऽवदच्चक्री तपस्विन् ! विधिनिर्मितम् । हरिणा चक्रिणा मन्त्रैः शस्त्रैरपि न वार्यते ॥७७॥ मुर्ख एव हि शोकेन स्वमात्मानं विमिश्रयेत । कृतेऽपि बहुशः शोके मृतो यन्न निवर्तते ॥७८॥ प्रहरन् शक्यते वीरः प्रहर्तुं दृष्टिगोचरः । अदृष्टे वैरिणि विधौ कः कुर्यात् पौरुषं भट: ? ॥७९॥ परस्मै सुखमुच्यन्ते वैराग्यजनिका गिरः । त्वयाऽपि न प्रभो ! शोच्यं यदेवमसि तत्त्ववित् ॥८०॥ असम्भाव्यं यतः शोककारणं किञ्चिदस्ति ते । इति विप्रवचः श्रुत्वा किं किमित्याह भूपतिः ।।८१।। ततः सोऽप्याह निर्नाथं सैन्यमेतदुपागतम् । षष्टिं सुतसहस्रांस्तु कालोऽकवलयत् क्षणात् ॥८२॥ अस्माद् वज्रानलप्रायादक्षरश्रवणान्नृपः । पपातावृतचैतन्यः पृथ्व्यां सिंहासनाल्लुठन् ॥८३।। कथञ्चिदाप्तचैतन्यो विरराम न रोदनात् । पिशाचकीव बहुशो व्यलपन्मुक्तकुन्तलः ॥८४॥ रे पाप्मन् ! दैव ! हरता युगपन्मम बालकान् । दुष्पूरोदरमापूरि नादाता किं परानतः ? ॥८५।। समकालपतत्सर्वपुत्रमृत्युमहाशनिः । न सञ्जहार यदि मां न ममाथ मृतिः क्वचित् ? ॥८६।। मध्ये षष्टिसहस्राणां न ह्येकोऽप्युद्धृतः सुतः । हहा ! किमवलम्बेन संस्थाप्यं हृदयं मया ? ॥८७।। इति पूत्कृत्य पूत्कृत्य रोदिति क्षितिवल्लभे । बभाण ब्राह्मणो युक्त्या प्रस्तुतोपशमोचितम् ।।८८।। क्वेदृशं मज्जनं शोके उपदेशः क्व तादृशः ? । क्व तादृक् तत्त्वविज्ञानं क्वेदृशी मूढता दृढा ! ॥८९॥ परापदि सुखं लोकः संसारानित्यतां वदेत् । स्वबन्धुमरणे चित्रं जह्यात् सर्वोऽपि धीरताम् ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org