________________
अष्टादशं संयतीयमध्ययनम्
हृष्टोऽथामात्यमापृच्छद् धन्यः श्रीभरतेश्वरः । येनेदृशे महादुर्गे चिरस्थायि यशः कृतम् ॥२१॥ शैलः कोऽपीदृशोऽस्त्यन्यः सर्वद्रष्टव्यभाजनम् । कारयामो वयं यत्र पवित्रं चैत्यमीदृशम् ॥२२॥ भवेज्जन्म-रमा- बुद्धिसाफल्यं सुस्थिरं यशः । पुण्यवृद्धिः स्व- परयोरिति चैत्यफलं विदुः ॥ २३॥ नियुक्तैरथ सर्वाऽपि चरैरुर्वी गवेषिता । सूर्यात् परः प्रकाशीव ददृशे नेदृशो गिरिः ॥२४॥ जह्नुमाह ततोऽमात्य आभिजात्ययुजा गिरा । निश्चितं नः पुरापीदं पदं नेदंनिदं क्वचित् ॥२५॥ तच्चैत्यस्यास्य रक्षायां यतध्वं क्रमशो नराः । कालदोषाद् भविष्यन्ति लुब्धाः प्रायोऽविवेकिनः ||२६|| तन्नूत्नकारणात् पूर्वचैत्यादेः पालनं वरम् । यश:- कीर्त्यनपेक्षैव यदत्र विशदा मतिः ॥२७॥ इति श्रुत्वाऽथ दण्डेन पातयित्वाऽस्य भूभृतः । नितम्ब-दन्त-शृङ्गाद्यमष्टसोपानता कृता ॥ २८॥ एतावता न दुर्गत्वं तादृशं प्रतिभासते । परिकैलासमिति तैरखानि परिखा क्षणात् ॥२९॥
चक्रभृन्नन्दनौजोभिर्दण्डरत्नं तदाऽस्फुरत् । आयोजनसहस्रान्तं बिभेद जगतीतलम् ||३०||
जर्जरीभूतभूपिण्डनिर्घातागतधूलिभिः । आकुलाऽभूत् तले नागकुमारनगरी तदा ॥३१॥ नागेश्वरोऽप्यदो ज्ञात्वाऽवधिसम्बन्धवन्धुरः । विस्मितोऽमितकोपाग्निरागादुपनृपाङ्गजम् ॥३२॥ अवादीदक्षरद्र्क्षाक्षरं रक्तेक्षणक्षणम् । महीं विभिद्य किं मत्तैर्नागपुर्युपदुद्रुवे ? ||३३|| बलमात्मवधायैव नूनं वो वेधसा कृतम् । निजपक्षबलादेव पतङ्गो नलं विशेत् ॥ ३४ ॥
Jain Education International 2010_02
For Private & Personal Use Only
४८९
www.jainelibrary.org