________________
४८८
उत्तरज्झयणाणि-२ वैजयेयस्य साम्राज्यं दत्त्वोपादितसानुजः । नृपतिः संयमैश्वर्यमैक्ष्वाकूणां ह्ययं क्रमः ॥७॥ षट्खण्डमात्रनियतशासनं चक्रवर्तिनाम् । एकाकारं त्रिलोकेऽपि तदभूदजितप्रभोः ॥८॥ स्वयं यमक्षणे क्षीणमोहो राज्यधुराधरम् । प्रभुः श्रीसगरं कृत्वा निष्क्रान्तो जगदर्चितः ॥९॥ सगरोऽपि समुत्पन्नचक्राद्यखिलसाधनः । षटखण्डभरताधीशश्चक्रवर्ती क्रमादभूत् ॥१०॥ तस्य जलकुमाराद्या वीराः शूराः प्रतापिनः । षष्टिः सहस्राः पुत्राणामजायन्त जयोद्धराः ॥११॥ स तैः परिवृतः पुत्रैर्मूर्त्तवीररसैरिव । न दुष्करं जगज्जेतुं सेन्द्रासुरममन्यत ॥१२॥ स्वभ्यस्ता कामपि कलामन्यदा वीक्ष्य भूप्रभुः । स्वैरं वरं वृणीष्वेति जहृमाह बृहत्सुतम् ॥१३।। सोऽपि बद्धाञ्जलिः प्रोचेऽभिलाषोऽसौ मम प्रभो ! । पश्याम्यहं महीपीठं सबन्धुः सर्वरत्नयुक् ॥१४॥ सुतवाक्यं महीनाथः प्रीत्यैव प्रत्यपद्यत । स्कन्धावारमुपादाय निर्जगाम शुभक्षणे ॥१५॥ चक्रिरत्नान्युपादाय यात्यस्मिन् ससहोदरे । क्षोभं क्षोण्यखिला लेभे बालेव प्रौढसङ्गमात् ॥१६।। महीं जनपद-ग्राम-नगराकर-काननाम् । सरो-गिरि-सरिच्छ्रेणी ददर्शासौ सकौतुकः ॥१७|| उपाष्टापदमायातस्तस्य स्फाटिकदीधितेः । रामणीयकमालोक्य जन्म मेने तदैव सः ॥१८।। सैन्यमस्य निवेश्याधः सतन्त्रोऽसौ तमारुहत् । अपश्यत् फुल्लनेत्राब्जश्चैत्यं भरतकारितम् ॥१९॥ स्वर्ण-चन्द्रार्क-रत्नादिपुद्गलैरिव निर्मिते । यथोक्तं तत्र जैनानि बिम्बान्यानर्च शुद्धिमान् ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org