SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४८७ अष्टादशं संयतीयमध्ययनम् सहस्रैर्दशभी राज्ञां सहितो भावलिङ्ग्यपि । प्रव्रज्यामग्रहीच्छक्रोपनीतद्रव्यलिङ्गभृत् ।।२७।। लक्षपूर्वी केवलित्वे पर्याये सोऽत्यवाहयत् । नैका विहारव्याहारैर्जनताः प्रत्यबूबुधत् ॥२८॥ आदित्ययशःप्रमुखास्ततश्चाष्टौ तदङ्गजाः । भोजं भोजं महीराज्यं धृत्वा मुकुटमार्षभम् ॥२९॥ तथैव केवलं प्राप्य प्रबोध्य भविकान् जनान् । प्रापुश्च परमानन्दं निर्वृत्ते भरते क्रमात् ॥३०॥ इति भरतचरित्रम् ॥३४॥ तथा सगरो वि सागरंतं भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा दयाए परिनिव्वुडो ॥३५॥ व्याख्या-सगरोऽपि द्वितीयश्चक्र्यपि सागरान्तं समुद्रपर्यन्तं पूर्वादिदिग्त्रये । उत्तरस्यां हिमवदन्तं भारतवर्ष भरतक्षेत्रं नराधिप: राजा । ऐश्वर्यं च केवलं परिपूर्णं हित्वा त्यक्त्वा दयया संयमेव परिनिर्वृत्तो मुक्तः । तथाहि श्रीयुगादिप्रभोवंशे कोशलायामिलापतिः । जितशत्रुः प्रतापाग्निदग्धशत्रुपतङ्गकः ॥१॥ रूप-लावण्य-सौभाग्य-सम्पदामस्ति सेवधिः । विजयेति जगत्ख्याता कान्ताऽस्यान्तःपुराग्रणीः ॥२॥ तत्कुक्षिभूः सुवर्णाङ्गः सिन्धुराङ्को जगत्पतिः ।। विश्वप्रदीपो द्वितीयो जिनोऽभूदजितः सुतः ॥३।। युवराजोऽनुजो राज्ञः सुमित्रविजयाह्वयः । पुत्रो यशोमतीकुक्षिभूस्तस्य सगराभिधः ॥४॥ गजादिस्वप्ननिर्णीतचक्रिभोगो महाभुजः । समर्थोऽप्यजितस्वामिसेवायां स्वमलीनयत् ।।५।। तौ प्राप्तपुण्यतारुण्यौ नैका भूमीश्वराङ्गजाः । वल्लभाः परिणिन्याते तथा च सुखमासतुः ॥६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy