SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४८६ उत्तरज्झयणाणि-२ पश्यतः स्वाङ्गसौन्दर्यमङ्गलीतः कथञ्चन । पपात मुद्रिका चक्री राभस्यान्न विवेद ताम् ॥१५।। क्रमात् तां मुकुरे तादृगुपाधिवियुताङ्गलीम् । मुण्डोत्तमावन्नि:श्रीकां व्यलोकत भूपतिः ॥१६॥ सर्वत्रोपाधिजन्या श्रीरिति प्रत्ययहेतवे । भूधवोऽपनयद् देहादेकैकं भूषणं क्रमात् ॥१७|| निखिलालङ्कृतित्यक्तमात्मानं श्रीपरिच्युतम् । लूनपा सर इवालोक्य दध्यौ क्षितीश्वरः ।।१८।। "अहो ! वृथाऽभिमानोऽयं मूढानां मोहहेतुकः । आगन्तुकद्रव्यकृते सौन्दर्ये काऽवलिप्तता ? ॥१९॥ स्वभावसुन्दरे ह्येकमात्मरूपं निरञ्जनम् । अन्यत् सर्वं भवत्येव विपाके वैपरीत्यभाक् ॥२०॥ पवित्रं रुचिरं वस्तु यत्सङ्गादितरद् भवेत् । तत्रापि वपुषि भ्रान्त्या कल्पयन्त्यभिरामताम् ॥२१॥ तदेतस्याकृतज्ञस्य शर्मणे पापकर्मभिः । जन्म व्यर्थयितुं युक्तं न तत्त्वज्ञानिनो मम ॥२२॥ षट्खण्डभरतैश्वर्यं यद्यप्यात्तमरिक्षयात् । ततः किं ? परमैश्वर्यं नाप्यं मोहक्षयं विना ॥२३॥ किञ्च रे रे पश्यत पश्यतेह चरितं किञ्चिज्जनस्याद्धतं, अन्धस्येक्षणशालिनोऽपि विदतोऽपि भ्रान्तिमच्चेतसः । यद्यत्रात्मनि रागतः सुखमुरु स्यात् तत्र न प्रीतिमान्, यस्मिन् दृष्टिगतेऽति नास्ति कुशलं तं गाढमालिङ्गति" ॥२४॥ इत्यादि चिन्तयाऽऽयातसच्चारित्राभिसन्धितः । वर्धमानशुभध्यानाद् भरतोऽजनि केवली ॥२५॥ अथ श्रीशक्रविज्ञप्तो व्यवहारमनुस्पृशन् । पञ्चमौष्टिकमाधत्त लोचं स्वेनैव पाणिना ॥२६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy