SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४८५ अष्टादशं संयतीयमध्ययनम् कोशलायां युगादीशजिनसर्वसुताग्रणीः । साम्राज्यं भरतो भेजे मघवेव त्रिविष्टपे ॥१॥ पूर्वजन्मास्खलत्साधुवैयावृत्त्यप्रसादतः । आससाद महाभोगं प्राथम्यं चक्रवर्तिनाम् ॥२॥ चतुर्दशमहारत्न-नवसेवधिसंनिधिः । द्वात्रिंशन्मौलिवद्राजसहस्रकृतशासनः ॥३॥ चतुःषष्टिसहस्रान्त:पुरीभोगमहार्णवे । रममाणो यथाकामं जलद्विप इवान्वहम् ॥४॥ द्वासप्ततिसहस्रोरुपत्तनादिमहेशताम् । षण्णवतिकोटिमितिग्रामपादात्यवैभवम् ॥५॥ अब्ध्यष्टमितिलक्षाणां रथाश्व-करिणामपि । दधत् प्रभुत्वं षट्खण्डभरतेऽप्येकनायकः ॥६॥ वस्त्रासन-धनान्नाद्यैर्वात्सल्यं समधर्मिणाम् । कुर्वंश्चिरं सिषेवेऽसौ श्रीयुगादिजिनेश्वरम् ॥७॥ जाते मुक्तिपरीरम्भसुभगेऽथ जगद्विभौ । अष्टापदेऽचले सिंहनिषद्याऽऽख्ये जिनालये ॥८॥ विश्वश्लाघे चतुर्दारे योजनायामशालिनि । त्रिगव्यूतोच्छ्रये रत्नदलैरेव स्वकारिते ॥९॥ मणीमयमहापीठे देवच्छन्दकवर्तिनः । सिंहासनपरीवारोपकृतिच्छत्रशालिनः ॥१०॥ निजवर्णप्रमाणाङ्कसंयुक्तान् स्थापनाऽर्हतः । यथाजिनोपदेशेन स्थापितान् वृषभादिकान् ॥११॥ वन्दमानोऽर्चयन् भक्त्या शक्त्या तीर्थं प्रभावयन् । शुद्धदृक् पञ्च पूर्वाणां लक्षान् द्रागत्यवाहयत् ॥१२॥ तदा श्रीभरते राज्यं प्राज्यं शासति भूतले । धर्मार्थ-काम-मोक्षाणां काऽपि वृद्धिः पराऽभवत् ॥१३॥ अन्यदा स्फातिमान् स्नातालङ्कृतोऽधिकदीधितिः । नृपतिर्मुकुरागारमगाद् द्रष्टुं वपुःश्रियम् ॥१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy