________________
४८४
उत्तरज्झयणाणि-२ तथा परे गृहस्थास्तेषां मन्त्रा गृहकार्यादिपर्यालोचनरूपास्तेभ्यः 'वाशब्दः समुच्चये, पुनर्विशेषणे' एषामतिसावद्यत्वविशिष्टेभ्यः परमन्त्रेभ्यश्च प्रतिक्रमामि । सोपस्कारत्वात् सूत्रस्य य ईदृशाभिप्रायवान् स 'अहो ! इति विस्मये' उत्थितो धर्म प्रत्युद्यतः खलु अहोरात्रमहर्निशं इतीत्येतद् "विज्ज'त्ति विद्वान् जानन् सन् तप एव चरेरासेवस्व, न तु प्रश्नादिकं सावधारणतया व्याख्येयम् ॥३१॥ अत्रान्तरे तस्य सातिशयतामवगम्य संजयमुनिनोक्तं ममाप्यायुराख्याहि, ततोऽसावाह
जं च मे पुच्छसी काले सम्मं सुद्धेण चेयसा ।
ताई पाउकरे वुद्धे तं णाणं जिणसासणे ॥३२॥ व्याख्या-यच्च मां पृच्छसि काले कालविषये सम्यक् शुद्धेन चेतसोपलक्षितः। 'ताई'ति तत् प्रादुष्कृतवान् प्रकटीकृतवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासन एव नान्यत्र दर्शने 'सावधारणत्वाद् वाक्यस्य' अतो जिनशासने यत्नो विधेयो यथा त्वमपि जानीषे इत्यर्थः ॥३२।। पुनरुपदेष्टुमाह
किरियं च रोयए धीरो अकिरियं परिवज्जए ।
दिट्ठिए दिट्ठिसंपन्नो धम्मं चर सुदुच्चरं ॥३३॥ व्याख्या-क्रियां चास्ति जीव इत्यादिरूपां रोचयेद् धीर: अक्रियां नास्त्यात्मेत्यादिकां परिवर्जयेत् । ततश्च दृष्ट्या सम्यग्दर्शनात्मिकया उपलक्षितो दृष्ट्या सम्यग्ज्ञानात्मिकया सम्पन्न एवं सम्यग्दर्शनज्ञानान्वितः सन् धर्मं चारित्रधर्मं चर सुदुश्चरमिति ॥३३॥ अथ पुनः क्षत्रियमुनिः संजयमुनि प्रति महापुरुषोदाहरणैर्धर्ममुपदिशन्नाह
एयं पुण्णं पयं सोच्चा अत्थ-धम्मोवसोहियं ।
भरहो वि भारहं वासं चिच्चा कामाई पव्वए ॥३४॥ व्याख्या-एतदनन्तरोक्तं पुण्यं पुण्यहेतुकं पदं क्रियादिस्थापनारूपं नानारुचिवर्जनाद्यावेदकं च शब्दसन्दर्भ श्रुत्वा । अर्थः स्वर्गापवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितमर्थधर्मोपशोभितम् । भरतोऽपि प्रथमचक्रवर्त्यपि यथावक्ष्यमाणाः सगरादयस्तथाऽयमपीत्यर्थः । भारतं वर्षं त्यक्त्वा चशब्दस्याध्याहारात् कामांश्च त्यक्त्वा प्रावाजीत् । तच्चरित्रोद्देशो यथा
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org